________________
8 अद्वेष- जिज्ञासादिनिरूपणम्
उक्ताऽद्वेषस्यैव तत्त्वज्ञानाजुकूलतामभिधातुमाह अद्वेष' इत्यादि ।
अद्वेषो जिज्ञासा शुश्रूषा श्रवण-बोध-मीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे ॥ १६ / १४॥
(१) अद्वेषः = पक्षपातकृताऽप्रीतिपरिहारः तत्त्वविषयः । (२) जिज्ञासा तत्पूर्विका तत्त्वज्ञानेच्छा । (३) शुश्रूषा = बोधश्रोतः सिराकल्पा तत्त्वजिज्ञासापूर्विका । (४) श्रवणं' = तत्त्वशुश्रूषानिबन्धनतत्त्ववचनाऽऽकर्णनम् । (५) बोधः = श्रवणनिबन्धनतत्त्वपरिच्छेदः । (६) मीमांसा = बोधानन्तरभावितत्त्वविचाररूपा, ततः श्रवणादिपदानां
=
कल्याणकन्दली
- इति प्राक् [पृ.१०३, २६५ ] निरूपितमेव । तत्तन्नय - कालभेदादिकं पुरस्कृत्य प्रवर्तनात् मूलागमैकदेशभूते परसमये वैचित्र्यावभासेऽपि तत्प्रतिक्षेपो न हिताय । तदुक्तं योगदृष्टिसमुच्चये यद्वा तत्तन्नयापेक्षा तत्तत्कालादियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वतः ॥ १३८ ॥ तदभिप्रायमज्ञात्वा न ततोऽवग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः | | परः || १३९ || - इत्यादि प्राक् [पृष्ठ- २४] दर्शितमेव । ततश्च परसमय एकान्तेनाऽसन्नेव' इति मोहः विपश्चितां न सम्भवति, तत्त्वहाने: । तदुक्तं योगबिन्दी -> आत्मीयः परकीयो वा कः सिद्धान्तो विपश्चिताम् । दृष्टेष्टाऽबाधितो यस्तु युक्त स्तस्य परिग्रहः || ५२५ ॥ - इति । सर्वदर्शनभेदेषु विरुद्धेषु सुपण्डिताः । रागद्वेषा न कुर्वन्ति शुद्ध - ब्रह्मोपयोगिनः ||६३ || परस्परविरुद्धेषु धर्मेषु ब्रह्मवेदिनः । यत्सत्यं तत्प्रगृह्णन्ति सापेक्षनयदृष्टितः ||६५ || सर्वदर्शनधर्मेषु सत्यस्य तारतम्यता । विद्यतेऽतः प्रजीवन्ति जीवत्स्वरूपशक्तितः ||६६|| - इत्येवं अध्यात्मगीतावचनान्यप्यत्रानुसन्धेयानि । यथा चैतत्तत्त्वं तथा प्राक् [४ / ११ पृ. १०४] निरूपितमेव ।।१६ / १३ ।।
मूलग्रन्थे दण्डान्वयस्त्वेवम् अद्वेषः, जिज्ञासा, शुश्रूषा, श्रवण- "बोध- 'मीमांसाः, परिशुद्धा प्रतिपत्तिः, प्रवृत्तिः इति तत्त्वे अष्टाङ्गिकी प्रवृत्तिः || १६ / १४ ।। इयञ्च कारिका योगदृष्टिसमुच्चयवृत्त्यधिकारविंशिकावृत्त्यादौ [यो.गा. १६ विं.गा. १२] समुद्धृता वर्तते ।
=
[१] अद्वेषः = पक्षपातकृताप्रीतिपरिहारः तत्त्वविषय इति । स्वाभिमतपदार्थगोचराभिलाषातिरेकप्रयुक्ता या तदितरतत्त्वविषयिणी अप्रीतिः तस्याः परिहार इत्यर्थः । [२] जिज्ञासा तत्पूर्विका तत्त्वज्ञानेच्छा इति तत्त्वगोचराऽप्रीतिपरिहारपूर्विला | | तत्त्वगोचरयथावस्थितबोधविषयाभिलाषा, अद्वेषत एव तत्प्रतिपत्त्यानुगुण्यमिति हेतोः । जिज्ञासायां विविदिषाऽपराभिधानायां सत्यामेव शुश्रूषादयः प्रज्ञागुणा भवन्ति, यथोक्तं मूलकारैरेव ललितविस्तारायां -> सत्याञ्चास्यां तत्त्वगोचराः शुश्रूषा- श्रवणग्रहण-धारणा-विज्ञान - ऊहापोह - तत्त्वाभिनिवेशा: प्रज्ञागुणाः - [प्र.४७ ] इति । [३] शुश्रूषा प्राक् व्यावर्णिता [ ११ / १ | पृ. २५२ ] । [४] श्रवणं तत्त्वशुश्रूषानिबन्धनतत्त्ववचनाऽऽकर्णनमिति । ततश्च संवेगादिलाभोऽपि महार्घ्यः सञ्जायते । इदमेवाभिप्रेत्य श्रावकप्रज्ञप्तिप्रकरणे श्रीउमास्वातिवाचकैः नव-नवसंवेगो खलु नाणावरणखओवसमभावो । तत्ताहिगमो य तहा | जिणवयणाऽऽयन्त्रणस्स गुणा || ३ || नवि तं करेइ देहो न य सयणो नेय वित्तसंघाओ । जिणवयणसवणजणिया जं संवेगाइया लोए ||४|| ←← इति । ततश्चाऽखिलं कल्याणं सञ्जायते, तदुक्तं योगदृष्टिसमुच्चये क्षाराम्भस्त्यागतो यद्वन्मधुरोदकयोगतः । बीजं प्ररोहमादत्ते तद्वत्तत्त्वश्रुतेर्नरः ||६१|| क्षारम्भः तुल्य इह च भवयोगोऽखिलो मतः । मधुरोदकयोगेन समा तत्त्वश्रुतिस्तथा ||६२ || | अतस्तु नियमादेव कल्याणमखिलं नृणाम् । गुरुभक्तिसुखोपेतं लोकद्वयहितावहम् ||६३ ॥ - इति प्राक् दर्शितमेव [पृ. २५ ] ।
=
->
३७१
यत्तु योगसारप्राभृते -> क्षाराम्भस्त्यागतः क्षेत्रे मधुरोऽमृतयोगतः । प्ररोहति यथा बीजं ध्यानं तत्त्वश्रुतेस्तथा || [ ७/ ५०] इत्येवं वदता नग्नाटामितगतिना तत्त्वश्रवणस्य ध्यानफलकत्वमुक्तं तच्चिन्त्यम् । [५] बोधः = श्रवणनिबन्धनतत्त्वपरिच्छेदः = तत्त्वगोचराप्रीतिपरिहारमूलकजिज्ञासासहित-शुश्रूषापूर्वकश्रवणजनितः सूक्ष्मः तत्त्वनिर्णयः । [६] मीमांसा = बोधानन्तरજૈનપ્રવચનને અનુસારી હોય તે જ સત્ છે. આ ખ્યાલમાં રાખવું.] [૧૬/૧૩]
ઉપરોક્ત અદ્વેષ જ તત્ત્વજ્ઞાનને અનુકૂળ છે - આ વાતને જણાવતા ગ્રંથકારથી કહે છે કે –
गाथार्थ :- [1] अद्वेष, [२] निज्ञासा, [3] शुश्रूषा [४] श्रवाग, [4] जोध, [६] मीमांसा, [७] परिशुद्ध प्रतिपत्ति, [८] प्रवृत्ति - आम तत्त्वप्रवृत्ति अष्टांगिडी छे. [१६ / १४]
તત્ત્વમાં અષ્ટાંગપ્રવૃત્તિ
Jain Education International
टीडार्थ :- [૧] કોઈક પક્ષપાતના કારણે થયેલ તત્ત્વવિષયક અપ્રીતિનો પરિહાર = અદ્વેષ. [૨] અદ્વેષપૂર્વક તત્ત્વજ્ઞાનની ઈચ્છા = જિજ્ઞાસા. [૩] જ્ઞાનના પ્રવાહની સેર જેવી તત્ત્વજિજ્ઞાસાપૂર્વક તત્ત્વ સાંભળવાની ઈચ્છા = શુશ્રૂષા. [૪] શ્રવણ = તત્ત્વને સાંભળવું. [૫] બોધ = તત્ત્વજ્ઞાન. [૬] મીમાંસા = તત્ત્વવિચારણા. મૂળ ગાથામાં શ્રવણ વગેરે પદનો દ્વન્દ્વ સમાસ १. मुद्रितप्रती १ श्रवणमाकर्णनं, बोधोऽवगमः, मीमांसा तत्त्वविचाररूपा - इति त्रुटितः पाठः ।
For Private & Personal Use Only
www.jainelibrary.org