________________
३४४ पञ्चदशं षोडशकम्
8 ब्रह्मगतबृहत्तमत्वनिरुक्तिः
सद्भूतत्ववियोगात् । तत्
तदेव परमात्मस्वरूपं परं = प्रकृष्टं ब्रह्म मतं ततोऽन्यस्य बृहत्तमस्याऽयोगात् । | तद्योगात् = परतत्त्वविषयकत्वसम्बन्धात् अस्यापि = अनालम्बनयोगस्यापि एषा लोकलोकोत्तरप्रसिद्धा त्रैलोक्ये = सर्वस्मिन्नपि जगति सुन्दरता = शेषवस्तुभ्यः' शोभनता ॥ १५ / ७॥
'कः पुनरजालम्बनयोगः कियन्तञ्च कालं भवतीत्याह 'सामर्थ्येत्यादि ।
सामर्थ्ययोगतो या तत्र दिदृक्षेत्यसङ्गशक्त्यादया । साऽनालम्बनयोगः प्रोक्तस्तददर्शनं यावत् ।। १५/८|| सामर्थ्य योगतः -> शास्त्रसन्दर्शितोपायस्तदतिक्रान्तगोचरः । शक्त्युद्रेकाद्विशेषेण सामर्थ्याख्योऽयमुत्तमः ॥
कल्याणकन्दली
छिद्यते, तदुक्तं योगशिखोपनिषदि अन्नपूर्णोपनिषदि मुण्डकोपनिषदि च भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते | चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ←- [यो.शि.५/४५- अन्न. ४ / ३१ मु. २ / २ / ८] इति । परमात्मरूपं प्रकृष्टं ब्रह्म, तदुक्तं तैत्तिरीयोपनिषदि -> सत्यं ज्ञानमनन्तं ब्रह्म <- - [३/१/१] इति । -> ब्रह्म देवो ब्रह्म तपो, ब्रह्म ज्ञानञ्च [ ] इत्यप्यत्रानुस्मर्तव्यम् ।
शाश्वतम् <
ततः = परमात्मस्वरूपात् अन्यस्य बृहत्तमस्य अयोगात् । अत्र बृहत्त्वं न प्रदेशसङ्ख्यापेक्षया बोध्यम्, लोकालोकव्यापिनि | गगन एव तादृशबृहत्तमत्वसम्भवात् । नाऽपि कालव्यापित्वविवक्षया, नित्यपदार्थसाधारण्यात् । नापि गमनशक्तिपुरस्कारेण, पुद्गलसाधारणत्वात् । नापि ज्ञानशक्तिरूपेण, सकलजीवसाधारण्यात् । नाऽपि ज्ञानाभिव्यक्त्यपेक्षया, भवस्थकेवलिन्यपि गतत्वात् । | किन्तु कर्मानावृतचैतन्यविवक्षया तद् बोध्यमित्यन्यैरपरिशीलितोऽयं पन्थाः । सकलकर्मविनिर्मुक्तमिदमेव ब्रह्मतत्त्वं तत्त्वतो ध्येयम् । तदुक्तं अध्यात्मसारे -> • पुण्य-पापविनिर्मुक्तं तत्त्वतस्त्वविकल्पकम् । नित्यं ब्रह्म सदा ध्येयमेषा शुद्धनयस्थितिः ॥ ← [१८/ १३०] इति । तद्दर्शनादेव मुक्तिप्राप्तिरिति । यथोक्तं योगप्रदीपे मुक्ति: श्रीपरमानन्दध्यानेनानेन योगिना । रूपातीतं निराकारं ध्यानं ध्येयं ततोऽनिशम् ॥ १०७ ॥ - इति । इदञ्च परैरपीष्यते । यथोक्तं श्वेताश्वतरोपनिषदि तमेव | विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय - [६/१५] ।
->
->
परतत्त्वविषयकत्वसम्बन्धात् उपलक्षणेन उत्तमसुखोपेत परतत्त्वफलकत्वाच्च अनालम्बनयोगस्य त्रैलोक्यसुन्दरता ज्ञेया । तदुक्तं भगवद्गीतायामपि -> प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् || ← [६ / [२७] इति । तदपेक्षयाऽन्येषां सर्वेषामेव तत्त्वतोऽनादेयता यदि तदन्येभ्योऽनालम्बनयोगोपस्थापनं न स्यादिति परेषामपि सम्मतम् । तदुक्तं याज्ञवल्क्यस्मृतौ सर्वधर्मान् परित्यज्य मोक्षधर्मं समाश्रयेत् । सर्वे धर्मास्सदोषाः स्युः पुनरावृत्तिकारकाः || [ ११ / १] इज्याध्ययनदानानि तपः स्वाध्यायकर्म च । अयं तु परमो धर्मो यद्योगेनाऽऽत्मदर्शनम् ॥ ←← [११ / ३४ ] इति । परतत्त्वदर्शनमेव प्रधानमिति भावः । यथोक्तं योगबिन्दी • योगस्येदं फलं मुख्यमैकान्तिकमनुत्तरम् । आत्यन्तिकं परं ब्रह्म योगविद्भिरुदाहृतम् ||५०६|| ← इति । एतदनुसारेण दिगम्बराऽमितगतिनाऽपि योगसारप्राभृते -> ध्यानस्येदं फलं मुख्यमैकान्तिकमनुतरम् । आत्मगम्यं परं ब्रह्म ब्रह्मविद्भिरुदाहृतम् || [ ७/३०] - इत्युक्तम् ॥१५ / ७॥
->
मूलग्रन्थे दण्डान्वयस्त्वेवम् सामर्थ्ययोगतो तत्र या असङ्गशक्त्याढ्या इति दिदृक्षा सा तददर्शनं यावत् अनालम्बनयोगः प्रोक्तः ||१५ / ८ | इयं कारिका योगविंशिकावृत्त्यादौ [ यो. विं. १९] समुद्धृता ।
->
ટીકાર્ય :- આ સિદ્ધ પરમાત્માસ્વરૂપ પરતત્ત્વનું દર્શન થાય ત્યારે સર્વ વસ્તુનું દર્શન થાય છે; કારણ કે જીવાદિ અમૂર્ત વસ્તુવિષયક દર્શન સર્વાવગાહી બને છે. તે જ સિદ્ધસ્વરૂપ સદ્ભૂત-સત્ત્વ તાત્ત્વિક છે. જ્ઞાનાવરણાદિ કર્મની વિકૃતિથી જીવાદિ વસ્તુનું સ્વરૂપ ઉપદ્રવ પામેલું હોવાથી તે સદ્ભૂતતાને ગુમાવે છે. તે જ સિદ્ધપરમાત્મસ્વરૂપ પ્રકૃષ્ટ બ્રહ્મતત્ત્વ મનાયેલ છે, કેમ કે એનાથી બૃહત્-મોટું બીજું કાંઈ છે જ નહિ. પરતત્ત્વ અવગાહીતાના યોગથી આ અનાલંબન ધ્યાનયોગ પણ સંપૂર્ણ જગતમાં અન્ય વસ્તુઓ કરતાં અધિક સુંદર છે. તેની સુંદરતા લૌકિક અને લોકોત્તર શાસનમાં પ્રસિદ્ધ છે. [૧૫/૭]
અનાલંબન ધ્યાનયોગ શું છે ? અને તે કેટલા કાળ સુધી હોય છે ? આ જિજ્ઞાસાને સંતોષવા ગ્રંથકારશ્રી જણાવે છે કેમાથાર્થ :- સામર્થ્યયોગથી તેને જોવાની જે અસંગશક્તિપૂર્ણ એવી ઈચ્છા તે પરતત્ત્વનું દર્શન ન થાય ત્યાં સુધી અનાલંબન योग सेवाये छ. [१५/८ ]
१. मुद्रितप्रती 'शेषवस्तुनः' इति पाठः ।
Jain Education Intemational
8 અનાલંબન યોગનો પરિચય
For Private & Personal Use Only
www.jainelibrary.org