Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 77
________________ २७२ एकादशमं षोडशकम् प्रधानाऽप्रधानसम्यग्दर्शनोपदर्शनम् लोकोत्तरस्य तस्मान्महानुभावस्य शान्तचित्तस्य । औचित्यवतो ज्ञानं शेषस्य विपर्ययो ज्ञेयः ॥११ / १६॥ सम्यग्दर्शनस्य = तत्त्वार्थश्रद्धानस्य योगात् ज्ञानं भवति । तत् = सम्यग्दर्शनं परमं प्रधानं ग्रन्थिभेदतो भवति । स = ग्रन्थिभेदो नियमत एवापार्द्धपुद्गलपरावर्त्ताधिकसंसारच्छेदी अपूर्वकरणतः | विशेषतः स्यात् । तच्च अपूर्वकरणं लोकात् सर्वस्मादपि उत्तरं प्रधानं, अनादौ संसारे सूत्रार्थग्रहणादि| तत्तद्धर्मस्थानसम्पत्तावप्यजातपूर्वत्वात् ॥११/१७|| यथाप्रवृत्तोत्तरपरिणाम तस्मात् लोकोत्तरस्य लोकातीतचारित्रस्य महानुभावस्य = अचिन्त्यशक्तेः शान्तचित्तस्य उपशान्तमनसः औचित्यवतः = औचित्ययुक्तस्य ज्ञानं ज्ञेयम् । कल्याणकन्दली = = व्यक्तं निश्चयनयसम्मतं यथाप्रवृत्तोत्तरपरिणामविशेषतः | लोकोत्तरम् ||११ / १५ || तस्मात् लोकोत्तरस्य महानुभावस्य शान्तचित्तस्य औचित्यवतो ज्ञानं ज्ञेयम् । शेषस्य विपर्ययो | ज्ञेयः ||११ / १६ || आसनभव्यता - कर्मलघुतादितः सम्यग्दर्शनं जायते, यथोक्तं आसन्नभव्यता - कर्महानि-संज्ञित्व-शुद्धिभाक् । | देशनाद्यस्तमिथ्यात्वो जीवः सम्यक्त्वमश्नुते ॥ - [ ] इति । कार्त्तिकेयानुप्रेक्षायां तु चदुगदिभव्वो सण्णी सुविसुद्धो जग्गमाणपज्जत्तो । संसारतडे णियडो णाणी पावेइ सम्मत्तं ॥ ३०७ ॥ - इत्युक्तम् । सम्यग्दर्शनस्य = तत्त्वार्थश्रद्धानस्य योगात् = सम्बन्धात् मिथ्याज्ञानं सम्यक् ज्ञानं भवति, उपलक्षणात् चारित्रादिकमपि प्रादुर्भवति, तस्मिन् सति च ज्ञानादीनां साफल्यं, यदुक्तं श्रीभद्रबाहुस्वामिभिः आचाराङ्गनिर्युक्तौ -> दंसणवओ हि सफलाणि हुंति तवनाणचरणाई - [२२१] इति । सर्वश्रेयोमूलत्वादेव श्रद्धाया अतिदुर्लभत्वं -> सद्धा परमदुल्लहा -- [३/९] इत्येवं उत्तराध्ययने दर्शितम् । तत् = सम्यग्दर्शनं प्राक् अव्यक्तमप्रधानं केवलव्यवहारनयाभिमतं वा ग्रन्थिभेदतः भव्यानां प्रधानं वा भवति । ग्रन्थिभेदः अपूर्वकरणतः चरमयथाप्रवृत्तकरणोत्तरकालीनपरिणामविशेषतः | स्यात् । अत्र परिणामः सर्वत्र शुभात्मपरिणतिलक्षणो बोध्यः । तदुक्तं सद्धर्मविंशिकायां इत्थ परिणामो खलु जीवस्स सुहो य होइ विन्नेओ । किं मलकलंकमुक्कं कणगं भुवि सामलं होइ ? || - [ विं. विं. ६ / ९ ] इति । प्रकृते अपूर्वगुणाप्तित्वात् | पूर्वं कंदाप्यप्राप्तत्वात् अपूर्वकरणमुच्यते । ग्रन्थिभेदप्रक्रियादिकञ्चाऽऽगमिकं वस्तु, तथा चैतत्संवादिन्यो विशेषावश्यकभाष्यगाथाः -> करणं अहापवत्तं अपुव्वमणियट्टिमेव भव्वाणं । इयरेसिं पढमं चिय, भण्णइ करणं ति परिणामो । जा गण्ठी ता पढमं, गण्ठिं समइच्छओ भवे बीयं । अणियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे ।। गण्ठित्ति सुदुब्भेओ, कक्खड घणरूढगूढगण्ठि व्व । जीवस्स कम्मजणिओ, घणरागद्दोसपरिणामो || भिन्नम्मि तम्मि लाभो सम्मत्ताईण मोक्खहेऊणं । सो य | दुलभो परिस्समचित्तविघायाइविग्घेहिं | <-[१२०२/१२०३/१९९५ /१९९६] इति । परैरपि दुःखोच्छेदाय सम्यग्दर्शनं शरणीक्रियते, तदुक्तं व्यासेन योगसूत्रभाष्ये -> तदेवमनादिना दुःखस्रोतसा व्युह्यमानमात्मानं भूतग्रामं च दृष्ट्वा योगी सर्वदुः खक्षयकारणं सम्यग्दर्शनं शरणं प्रपद्यते <- [ योगसूत्र २ / १५ - पृ. १७४] इति । उपशान्तमनसः इति । परमतानुसारेण योगारूढदशायां शमस्यैवापवर्गकारणत्वम्, तदुक्तं भगवद्गीतायां -> - आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शम: कारण| मुच्यते ॥ <- [ ६ / ३] इति । न च परोक्तत्वादनुपादेयमिदमित्यारेकणीयम्, सदुक्तित्वेनास्माकमप्यभिमतत्वात्तस्य । इदमेवाभिप्रेत्य ज्ञानसारे -> आरुरुक्षुर्मुनिर्योगं श्रयेद् बाह्यक्रियामपि । योगारूढः शमादेव शुद्धयत्यन्तर्गतक्रियः ।। - [ ६ / ३] इति प्रोक्तम् । | औचित्ययुक्तस्य जिनाज्ञाऽऽदरकलित-तत्तद्रव्य-क्षेत्र-काल-भावानुरूपप्रवृत्तिसमेतस्य ज्ञानं सम्यग्ज्ञानं ज्ञेयम् । इत्थञ्चाऽऽसन्न Jain Education International = = - ગાથાર્થ :- માટે લોકોત્તર મહાનુભાવ શાંતચિત્તવાળા અને ઔચિત્યયુક્ત એવા જીવનો (બોધ તે) જ્ઞાન જાણવું. બાકીનાનું अज्ञान भागवु. [११/१६] For Private & Personal Use Only = જ્ઞાન અને અજ્ઞાનના સ્વામીને ઓળખીએ છે ઢીકાર્થ :- તત્ત્વાર્થશ્રદ્ધાસ્વરૂપ સમ્યગ્દર્શનના યોગથી જ્ઞાન ઉત્પન્ન થાય છે, ગ્રન્થિભેદથી તે સમ્યગ્દર્શન પ્રધાન બને છે. ગ્રન્થિભેદ નિયમા અપાર્ધ પુદ્ગલપરાવર્તથી વધારાના સંસારનો નાશ કરે છે. તે ગ્રન્થિભેદ યથાપ્રવૃત્તકરણ પછી થનાર પરિણામવિશેષસ્વરૂપ અપૂર્વકરણથી થાય છે. સર્વ લોક કરતાં પણ તે અપૂર્વકરણ પ્રધાન છે; કારણ કે અનાદિ સંસારમાં સૂત્રગ્રહણ, અર્થગ્રહણ વગેરે તે તે ધર્મસ્થાનોની પ્રાપ્તિ થવા છતાં અપૂર્વકરણ ક્યારેય પણ પૂર્વે પ્રાપ્ત થયું નથી. [૧૧/૧૫] ટીકાર્ય :- માટે લોકોત્તર ચારિત્રવાળા, અચિંત્યશક્તિવાળા, શાંત મનવાળા અને ઔચિત્યવાળા જીવનું જ્ઞાન જાણવું. ઉપરોક્ત www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250