Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 91
________________ २८६ द्वादशं षोडशकम् तपः-संयम-सत्य-शौच-ब्रह्मचर्यादिनिरूपणम् 08 तपो द्वादशभेदं नियमात् = निश्चयेन यमश्च = 'संयमश्च सत्यथ अविसंवादनादिरूपं, शौचश बाह्याभ्यन्तरभेदम् ॥१२/१२|| आकिञ्चन्यं = निष्कियनत्वं बाह्याभ्यन्तरपरिग्रहत्यागरूपं मुख्यं = निरुपचरितं. ब्रह्माऽपि = ब्रह्माऽपि कल्याणकन्दली तपो द्वादशभेदं बाह्याभ्यन्तरभेदात्, तदक्तं दशवकालिकनियुक्तौ ->अणसणमूणोअरिआ वित्तीसंखेवणं रसच्चाओ। काय| किलेसो संलीणया य बज्झो तवो होइ ।।४७|| पायच्छित्तं विणओ वेआवच्चं तहेव सज्झाओ । ज्ञाणं उस्सग्गोऽवि अ अभिंतरओ तवो होइ ।।४८।। - इति । एतच्चाशंसाविप्रमुक्तत्वान्निर्जराफलमवसेयमत्र । तदुक्तं यतिधर्मविशिकायां -> इह-परलोगादणविक्खं जमणसणाइ चित्तणुट्ठाणं । तं सुद्धनिज्जराफलमित्थ तवो होइ नायब्चो ॥९॥ -- इति । विनयद्वात्रिंशिकायामपि -> कुर्यात्तपस्तथाचारं नैहिकामुष्मिकाशयात् । कीर्त्याद्यर्थं च नो किन्तु निष्कामो निर्जराकृते ||२४|| - इत्युक्तम् । संयमश्च सप्तदशविधः -> 'पुढवि- दग- अगणि- "मारुय- 'वणस्मइ- "बि- “ति- “चउ- ‘पणिंदि- अजीवा । | "पेह- १२उप्पेह- पमज्जण- १४परिट्ठवण "मणो- १९वई- "काए || - [द.वै.नि.४६] इति आवश्यकनियुक्ति-[पगा.स.१]] दशवकालिकनियुक्तिवचनात् । प्रकारान्तरेणेन्द्रियकषायनिग्रहादिरूपोऽपि संयमो बोध्यः, यथोक्तं यतिधर्मविंशिकायां > आसबदारनिरोहो जमिंदिय-कसाय-दंडनिग्गहओ। पेहातिजोगकरणं तं सव्वं संजमो नेओ ।। - [वि.वि.११/१०० इति । सत्यञ्चाविसंवादनादिरूपम्, उपलक्षणात् गुरुसूत्रानुज्ञातत्वादिकमप्यत्र बोध्यम् । तदुक्तं यतिधर्मविंशिकायां -> गुरुसुत्ताणुनायं जं हियमियभासणं ससमयम्मि । अपरोवतावमणघं तं सच्चं निच्छियं जइणो ||१|| - इति । शौचं बाह्याभ्यन्तरभेदं द्विविधं भवति जगति, तदुक्तं यतिधर्मविंशिकायां -> आलोयणादिदसविहजलओ पावमलखालणं विहिणा । जं दवसोयजुत्तं तं सोयं जईजणपसत्थं ।।१२।। - इति । जाबालदर्शनोपनिषदि तु -> 'अहं शुद्ध' इति ज्ञानं शौचमाहर्मनीषिणः - [१/२०] इति कथितम् । शाण्डिल्योपनिषदि च -> शौचं नाम द्विविधं बाह्यमान्तरश्चेति । तत्र मृजलाभ्यां बाह्यम् । मनःशुद्धिः आन्तरम् । तदध्यात्मविद्यया लक्ष्यम् - [१/१] इत्युक्तम् । लोभनिग्रहः शौचमित्यन्ये । तदुक्तं तत्त्वार्थसारे अमृतचन्द्रेण -> परिभोगोपभोगत्व-जीवितेन्द्रियभेदतः । चतुर्विधस्य लोभस्य निवृत्तिः शौचमुच्यते ॥१७|| <- इति । भविष्यपुराणे तु -> अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितः । आचारे च व्यवस्थानं शौचमेतत्प्रकीर्तितम ।। <- [१/२/१६०] इत्येवं व्यवहारप्रधानं शौचलक्षणमाविष्कृतम् । मैत्रेय्युपनिषदि तु -> शौचमिन्द्रियनिग्रहः <- [२/ २] इत्युक्तम् । साधोस्तु प्राधान्येन भावशौचमवगन्तव्यं दोषक्षालनलक्षणम्, मनसो मलिनत्वे गङ्गास्नानादीनामपि शौचानापादकत्वं किं पुनः सामान्यजलस्नानादीनामपि, तदुक्तं जाबालदर्शनोपनिपदि -> चित्तमन्तर्गतं दृष्टं तीर्थस्नानैर्न शुध्यति । शतशोऽपि जलैतं सुराभाण्डमिवाऽशुचि ।। - [५/५४] इति । लिङ्गपुराणेऽपि -> अवगाह्यापि मलिनो ह्यन्तःशौचविवर्जितः ।। शैवला झषका मत्स्याः सत्त्वाः मत्स्योपजीविनः ।। सदाऽवगाह्य सलिले विशुद्धाः किं द्विजोत्तमाः । तस्मादाभ्यन्तरं शौचं सदा कार्य विधानतः ।। <-[८/३४-३५] इत्युक्तम् । दक्षस्मृती अपि -> शौचमाभ्यन्तरं त्यक्त्वा भावशुद्धयात्मकं शुभम् ।। जलादिशौचं यत्रेष्टं मूढविस्मापनं हि तत् ॥ ८ इत्युक्तम् । -> चित्तं समाधिभिः शुद्धं वदनं सत्यभाषणैः । ब्रह्मचर्यादिभिः काय: शुद्धो गङ्गां विनाऽप्यसौ ।। -[ ] इत्यप्यत्र स्मर्तव्यम् । अन्यत्रापि -> सर्वजीवदया शौचं शौचं सत्यप्रभाषणम् । अचौर्यं ब्रह्मचर्यं च शौचं सन्तोष एव च ।। कषायनिग्रहः शौचं शौचमिन्द्रियनिग्रहः । प्रमादवर्जनं शौचं ध्यानं शौचं तथोत्तमम ।। दुष्टयोगजयः शौचं शौचं बरविवेकिता । तपो द्वादशधा चैव शौचमाहर्मनीषिणः ।। - [ ] इत्युक्तम् । यदपि नारदपुराणे --> शौचे यत्नः सदा कार्यः शौचमूलो द्विजः स्मृतः । शौचाचारविहीनस्य समस्तं कर्म निष्फलम् ।। <- [पूर्वभाग, प्रथमपाद, २७/८] इत्युक्तं तदपि भावशौचापेक्षयाऽवगन्तव्यमदष्टम् । एतेन -> अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्यातपोभ्यां भूतात्मा, बुद्धिानेन शुध्यति ॥[५/१०९] - इति मनुस्मृतिवचनमपि व्याख्यातम्, ध्यानस्येव शुद्धेः चतुर्विधत्वख्यापनपरत्वात्तस्येति । अत्र च सामस्त्येनोपयोगिन्यः श्रीश्रीपालकथागाथा एवं बोध्याः → खंती नाम अकोहत्तं मद्दवं माणवजणं । अज्जवं सरलो भावो मुत्ती निग्गंथया दहा ।।१०८७।। तवो इच्छानिरोहो अ दया जीवाणं पालणं सच्चं वक्कमसावजं | सोयं निम्मलचित्तया ।।१०८८।। बंभमट्टारभेअस्स स्स विवजणं । अकिंचणं न मे किंचि कजं केणवि त्थि तिऽणीहया ।।१०८९।। - इति ॥१२/१२।। છે. તેથી સર્વવિરતિસ્વરૂપ દીક્ષામાં ધર્મમાર્દવ વગેરેનું કારણ એવા વચનમાર્દવ વગેરે પ્રાથમિક દશામાં મળે છે . એમ જાગવું. નિશ્ચયથી બાર પ્રકારનો અક્લિટ એવો તપ અને સંયમ તથા અવિસંવાદઆદિસ્વરૂપ સત્ય તેમ જ બાહ્ય-અત્યંતર બન્ને પ્રકારની શૌચ = પવિત્રતા = શુદ્ધિ પ્રાપ્ત થાય છે. [૧૨/૧૨] અનૌપચારિક એવી બાહ્ય-અત્યંતર પરિગ્રહના ત્યાગ સ્વરૂપ નિષ્ફચનતા |१. ह.प्रती इदं पदं नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250