________________
२८६ द्वादशं षोडशकम्
तपः-संयम-सत्य-शौच-ब्रह्मचर्यादिनिरूपणम् 08 तपो द्वादशभेदं नियमात् = निश्चयेन यमश्च = 'संयमश्च सत्यथ अविसंवादनादिरूपं, शौचश बाह्याभ्यन्तरभेदम् ॥१२/१२|| आकिञ्चन्यं = निष्कियनत्वं बाह्याभ्यन्तरपरिग्रहत्यागरूपं मुख्यं = निरुपचरितं. ब्रह्माऽपि = ब्रह्माऽपि
कल्याणकन्दली तपो द्वादशभेदं बाह्याभ्यन्तरभेदात्, तदक्तं दशवकालिकनियुक्तौ ->अणसणमूणोअरिआ वित्तीसंखेवणं रसच्चाओ। काय| किलेसो संलीणया य बज्झो तवो होइ ।।४७|| पायच्छित्तं विणओ वेआवच्चं तहेव सज्झाओ । ज्ञाणं उस्सग्गोऽवि अ अभिंतरओ तवो होइ ।।४८।। - इति । एतच्चाशंसाविप्रमुक्तत्वान्निर्जराफलमवसेयमत्र । तदुक्तं यतिधर्मविशिकायां -> इह-परलोगादणविक्खं जमणसणाइ चित्तणुट्ठाणं । तं सुद्धनिज्जराफलमित्थ तवो होइ नायब्चो ॥९॥ -- इति । विनयद्वात्रिंशिकायामपि -> कुर्यात्तपस्तथाचारं नैहिकामुष्मिकाशयात् । कीर्त्याद्यर्थं च नो किन्तु निष्कामो निर्जराकृते ||२४|| - इत्युक्तम् ।
संयमश्च सप्तदशविधः -> 'पुढवि- दग- अगणि- "मारुय- 'वणस्मइ- "बि- “ति- “चउ- ‘पणिंदि- अजीवा । | "पेह- १२उप्पेह- पमज्जण- १४परिट्ठवण "मणो- १९वई- "काए || - [द.वै.नि.४६] इति आवश्यकनियुक्ति-[पगा.स.१]] दशवकालिकनियुक्तिवचनात् । प्रकारान्तरेणेन्द्रियकषायनिग्रहादिरूपोऽपि संयमो बोध्यः, यथोक्तं यतिधर्मविंशिकायां > आसबदारनिरोहो जमिंदिय-कसाय-दंडनिग्गहओ। पेहातिजोगकरणं तं सव्वं संजमो नेओ ।। - [वि.वि.११/१०० इति । सत्यञ्चाविसंवादनादिरूपम्, उपलक्षणात् गुरुसूत्रानुज्ञातत्वादिकमप्यत्र बोध्यम् । तदुक्तं यतिधर्मविंशिकायां -> गुरुसुत्ताणुनायं जं हियमियभासणं ससमयम्मि । अपरोवतावमणघं तं सच्चं निच्छियं जइणो ||१|| - इति ।
शौचं बाह्याभ्यन्तरभेदं द्विविधं भवति जगति, तदुक्तं यतिधर्मविंशिकायां -> आलोयणादिदसविहजलओ पावमलखालणं विहिणा । जं दवसोयजुत्तं तं सोयं जईजणपसत्थं ।।१२।। - इति । जाबालदर्शनोपनिषदि तु -> 'अहं शुद्ध' इति ज्ञानं शौचमाहर्मनीषिणः - [१/२०] इति कथितम् । शाण्डिल्योपनिषदि च -> शौचं नाम द्विविधं बाह्यमान्तरश्चेति । तत्र मृजलाभ्यां बाह्यम् । मनःशुद्धिः आन्तरम् । तदध्यात्मविद्यया लक्ष्यम् - [१/१] इत्युक्तम् । लोभनिग्रहः शौचमित्यन्ये । तदुक्तं तत्त्वार्थसारे अमृतचन्द्रेण -> परिभोगोपभोगत्व-जीवितेन्द्रियभेदतः । चतुर्विधस्य लोभस्य निवृत्तिः शौचमुच्यते ॥१७|| <- इति । भविष्यपुराणे तु -> अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितः । आचारे च व्यवस्थानं शौचमेतत्प्रकीर्तितम ।। <- [१/२/१६०] इत्येवं व्यवहारप्रधानं शौचलक्षणमाविष्कृतम् । मैत्रेय्युपनिषदि तु -> शौचमिन्द्रियनिग्रहः <- [२/ २] इत्युक्तम् । साधोस्तु प्राधान्येन भावशौचमवगन्तव्यं दोषक्षालनलक्षणम्, मनसो मलिनत्वे गङ्गास्नानादीनामपि शौचानापादकत्वं किं पुनः सामान्यजलस्नानादीनामपि, तदुक्तं जाबालदर्शनोपनिपदि -> चित्तमन्तर्गतं दृष्टं तीर्थस्नानैर्न शुध्यति । शतशोऽपि जलैतं सुराभाण्डमिवाऽशुचि ।। - [५/५४] इति । लिङ्गपुराणेऽपि -> अवगाह्यापि मलिनो ह्यन्तःशौचविवर्जितः ।। शैवला झषका मत्स्याः सत्त्वाः मत्स्योपजीविनः ।। सदाऽवगाह्य सलिले विशुद्धाः किं द्विजोत्तमाः । तस्मादाभ्यन्तरं शौचं सदा कार्य विधानतः ।। <-[८/३४-३५] इत्युक्तम् । दक्षस्मृती अपि -> शौचमाभ्यन्तरं त्यक्त्वा भावशुद्धयात्मकं शुभम् ।। जलादिशौचं यत्रेष्टं मूढविस्मापनं हि तत् ॥ ८ इत्युक्तम् । -> चित्तं समाधिभिः शुद्धं वदनं सत्यभाषणैः । ब्रह्मचर्यादिभिः काय: शुद्धो गङ्गां विनाऽप्यसौ ।। -[ ] इत्यप्यत्र स्मर्तव्यम् । अन्यत्रापि -> सर्वजीवदया शौचं शौचं सत्यप्रभाषणम् । अचौर्यं ब्रह्मचर्यं च शौचं सन्तोष एव च ।। कषायनिग्रहः शौचं शौचमिन्द्रियनिग्रहः । प्रमादवर्जनं शौचं ध्यानं शौचं तथोत्तमम ।। दुष्टयोगजयः शौचं शौचं बरविवेकिता । तपो द्वादशधा चैव शौचमाहर्मनीषिणः ।। - [ ] इत्युक्तम् । यदपि नारदपुराणे --> शौचे यत्नः सदा कार्यः शौचमूलो द्विजः स्मृतः । शौचाचारविहीनस्य समस्तं कर्म निष्फलम् ।। <- [पूर्वभाग, प्रथमपाद, २७/८] इत्युक्तं तदपि भावशौचापेक्षयाऽवगन्तव्यमदष्टम् । एतेन -> अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्यातपोभ्यां भूतात्मा, बुद्धिानेन शुध्यति ॥[५/१०९] - इति मनुस्मृतिवचनमपि व्याख्यातम्, ध्यानस्येव शुद्धेः चतुर्विधत्वख्यापनपरत्वात्तस्येति । अत्र च सामस्त्येनोपयोगिन्यः श्रीश्रीपालकथागाथा एवं बोध्याः → खंती नाम अकोहत्तं मद्दवं माणवजणं । अज्जवं सरलो भावो मुत्ती निग्गंथया दहा ।।१०८७।। तवो इच्छानिरोहो अ दया जीवाणं पालणं सच्चं वक्कमसावजं | सोयं निम्मलचित्तया ।।१०८८।। बंभमट्टारभेअस्स स्स विवजणं । अकिंचणं न मे किंचि कजं केणवि त्थि तिऽणीहया ।।१०८९।। - इति ॥१२/१२।। છે. તેથી સર્વવિરતિસ્વરૂપ દીક્ષામાં ધર્મમાર્દવ વગેરેનું કારણ એવા વચનમાર્દવ વગેરે પ્રાથમિક દશામાં મળે છે . એમ જાગવું. નિશ્ચયથી બાર પ્રકારનો અક્લિટ એવો તપ અને સંયમ તથા અવિસંવાદઆદિસ્વરૂપ સત્ય તેમ જ બાહ્ય-અત્યંતર બન્ને પ્રકારની શૌચ = પવિત્રતા = શુદ્ધિ પ્રાપ્ત થાય છે. [૧૨/૧૨] અનૌપચારિક એવી બાહ્ય-અત્યંતર પરિગ્રહના ત્યાગ સ્વરૂપ નિષ્ફચનતા |१. ह.प्रती इदं पदं नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org