________________
8 तेजोलेश्यावृद्धिप्रकाशनम् *
२८७ ब्रह्मचर्यमपि अष्टादशभेदशुद्धं परं - प्रधानं, सदागमः = भगवद्वचनं, तेन विशुद्ध = निर्दोषं, सर्वमिदं दशविधमपि क्षान्त्यादि शुक्लं = निरतिचारं, खलुशब्दो वाक्यालङ्कारे, नियमात् = निश्चयात्. संवत्सरादूवं = वर्षपर्याय
कल्याणकन्दली निष्किञ्चनत्वं, तदुक्तं यतिधर्मविंशिकायां -> पक्खीउवमाए जं धम्मोवगहणाइलोभरेगेण । वत्थुस्साऽगहणं खलु तं आकिंचन्नमिह भणियं ।।१३।। इति ।। ___ ब्रह्मचर्यमपि अष्टादशभेदशुद्धं, 'ओरालियं च दिव्वं मण-वइ-काएण करणजोगेणं । अणोमोयणकारवणे करणेणऽट्ठारसाबंभ ॥ [पगा.स.१८ ब्र.१] इति आवश्यकनियुक्तिप्रदर्शिताऽष्टादशाऽब्रह्मत्यागात् । उपलक्षणात् मैथुनसंज्ञाविजयेन इन्द्रियप्रविचारपरित्यागात्मकमपि ब्रह्मचर्यमवगन्तव्यम् । यथोक्तं यतिधर्मविंशिकायां -> मेहणसन्नाविजएण पंचपरियारणापरिच्चाओ। बंभे मणवत्तीए जो सो बंभं सुपरिसुद्धं ॥१४॥ - इति । ईश्वरगीतायाञ्च -> कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा । सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते ।। - [ ] इत्युक्तम् । अन्यमतेऽष्टविधमैथुननिवृत्तिः ब्रह्मचर्य, तदुक्तं कण्ठरुद्रोपनिषदि -> दर्शनं, स्पर्शनं केलिः कीर्तनं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृतिरेव च ।। एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमनुष्ठेयं ममक्षभिः ।। [९/१०] - इति । शाण्डिल्योपनिषदि अपि -> ब्रह्मचर्यं नाम सर्वावस्थास मनोवाकायकर्मभिः सर्वत्र मैथुनत्यागः <- [१/१] इत्युक्तम् । पद्मानन्दिपञ्चविंशतिकायां तु निश्चयनयेन -> आत्मा ब्रह्म विविक्तबोधनिलयो यत्तत्र चर्यं परम् । स्वाङ्गाऽऽसङ्गविवर्जितैकमनसस्तद् ब्रह्मचर्यं मुने ! ॥[ ] <- इत्युक्तम् । अनगारधर्मामृतेऽपि -> या ब्रह्मणि स्वात्मनि शुद्धबुद्धे चर्या परद्रव्यमुचप्रवृत्तिः । तद् ब्रह्मचर्य व्रतसार्वभौमं ये यान्ति ते यान्ति परं प्रमोदम् ।।
- [४/६०] इत्युक्तं निश्चयनयाभिप्रायेण । सर्वस्य मैथुनहेयताऽभिमता । इदमेवाऽभिप्रेत्य हठयोगप्रदीपिकायां -> मरणं बिन्दुपातेन जीवनं बिन्दुधारणात् <- [३/८८] इत्युक्तम् । तदुक्तं चाणक्यसूत्रेऽपि -> पुरुषस्य मैथुनं जरा <- [२८४]। -> ब्रह्मचर्यं = उपस्थसंयमः <- इति राजमार्तण्ड-चन्द्रिकाकारादयः [पा.यो.सू.चं.९२] ।
दशविधमपि क्षान्त्यादि, ‘खंती य मद्दवज्जव मुत्ती तव-संजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च बंभं च जइ|| धम्मो ।। - [पारिष्ठापनिकानियुक्ति-पश्चात् -३] इति आवश्यकनियुक्तिप्रदर्शितमवधातव्यम् ।
शुक्लं = निरतिचारं, निश्चयात् वर्षपर्यायव्यतिक्रमे इति । तदुक्तं व्याख्याप्रज्ञप्ती -> जे इमे अज्जत्ताए समणा निग्गंथा एते णं कस्स तेउलेसं वीतिवयति ? गोयमा ! मासपरियाए समणे णिग्गंधे वाणमंतराणं देवाणं तेउलेसं वीइवयइ । एवं दमासपरियाए समणे णिग्गंथे असुरिंदवज्जियाणं भवणवासीणं देवाणं तेउलेसं वीतिवयति । तिमासपरियाए समणे णिग्गंथे असुरकुमारिंदाणं देवाणं तेउलेसं वीतिवयति । चउमासपरियाए समणे णिग्गंथे गहगण-णक्खत्त-तारारूवाणं जोतिसियाणं तेउलेसं वीतिवयति । पंचमासपरियाए समणे णिग्गंथे चंदिम-सूरियाणं जोतिसिंदाणं तेउलेसं वीतिवयति । छम्मासपरियाए समणे णिग्गंथे सोहम्मीसाणाणं देवाणं तेउलेसं वीतिवयति । सत्तमासपरियाए समणे णिग्गंधे सणंकुमार-माहिंदाणं देवाणं तेउलेसं वीतिवयति । अट्ठमासपरियाए समणे णिग्गंथे बंभलोग-लंतगाणं देवाणं तेउलेसं वीतिवयति । णवमासपरियाए समणे णिग्गंथे महासुक्क-सहस्साराणं देवाणं तेउलेसं वीतिवयति । दसमासपरियाए समणे णिग्गंथे आणय-पाणय-आरणाचुयाणं देवाणं तेउलेस्सं वीतिवयति । एकारसमासपरियाए समणे णिग्गंथे गेविजाणं देवाणं तेउलेस्सं वीतिवयति । बारसमासपरियाए अणुत्तरोववातियाणं तेउलेस्सं वीतिवयति । तेण परं सुक्के सुक्काभिजाती भवित्ता सिज्झति <- [व्या.प्र.१४/९/५३९] इति । अत्र च -> तेजोलेश्यां = सुखासिकां, तेजोलेश्या हि प्रशस्तलेश्योपलक्षणं, सा च सुखासिकाहेतुरिति कारणे कार्योपचारात् तेजोलेश्याशब्देन सुखासिका विवक्षितेति - व्याख्यातं श्रीअभयदेवसूरिभिः तद्वृत्तौ । तदुक्तं पञ्चसूत्रेऽपि -> स एवं
તથા ૧૮ ભેદથી શુદ્ધ એવું પ્રધાન બ્રહ્મચર્ય પ્રાપ્ત થાય છે. આ ભગવાનના વચનથી (આગમાનુસારી હોવાથી) દોષરહિત હોય છે. આ બધું જ = દશવિધ ક્ષમા વગેરે નિશ્ચયથી ૧ વર્ષનો ચારિત્રપર્યાય પસાર થયે છતે શુક્લ = નિરતિચાર બને છે, કારણ કે ક્રિયાના મલ = દોષ છોડવાના લીધે ૧ વર્ષનો ચારિત્ર પર્યાય પૂર્ણ થયા બાદ ક્ષમા વગેરે દશવિધ યતિધર્મ શુક્લ = નિરતિચાર यवाना स्वमा जे. [१२/13]
વિશેષાર્થ :- ક્ષમા, નમ્રતા વગેરે દશવિધ યતિધર્મ પ્રારંભમાં વચનક્ષમા, વચન નમ્રતા વગેરે કક્ષાના હોય છે, જેમાં ક્યારેક સૂક્ષ્મ અતિચાર લાગે છે. ધર્મક્ષમા, ધર્મનમ્રતા વગેરેમાં અતિચાર ન હોવાથી તે નિરતિચાર = શુક્લ કહેવાય છે. વચનક્ષમાં વગેરે ધર્મક્ષમાદિનું મુખ્ય કારણ છે. જેમ જેમ ચારિત્રપર્યાય વધતો જાય તેમ તેમ ધર્મપ્રવૃત્તિમાં-ક્રિયામાં વ્યવહારમાં અતિચાર ઓછા થતાં જાય છે. તે બેલેશ્યાવૃદ્ધિ ચિત્તશુદ્ધિવૃદ્ધિ થતી જાય છે. ૧ વર્ષનો ચારિત્રપર્યાય પૂર્ણ થયે છતે અનુત્તરવિમાનવાસી
For Private & Personal Use Only
Jain Education Intemational
www.jainelibrary.org