Book Title: Satyaharishchandranatakam Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik Publisher: Tukaram Jawaji Mumbai View full book textPage 9
________________ २ सत्यहरिश्चन्द्रनाटकम् | नटः - अथ किम् । सूत्रधारः - मारिष अन्यद्विचिंतितमन्यदापतितम् । श्रीसिद्धमाभिधानशब्दानुशासनवेधसः श्रीमदाचार्यहेमचंद्रस्य शिष्येण रामचंद्रेण विरचितं सत्यहरिश्चंद्राभिधानमादिरूपकमभिनीय सभाजनमनुरंजयिष्यामः । इति किल अस्माकं मनोरथः । यदि वा खलु कृत्वा प्रतिभयम् । कतमो नाम साहसिकः प्रसह्य नः प्रतिषिध्य स्वाभिप्रेतं प्रबंधमभिनेतुं सोद्यमः । एते वयं तमपकर्ण्य स्वप्रतिज्ञातमाध्यास्यामः । यतः सत्वैकतानुवृत्तीनां प्रतिज्ञातार्थकारिणाम् । प्रभविष्णुर्न देवोऽपि किं पुनः प्राकृतो जनः ॥ ६ ॥ (नेपथ्ये) हृदयंगममुक्तवानसि । सूत्रधारः - कथमयं हरिश्चंद्रभूमिकावाही नर्तकः शब्दायते । तदेहि | मारिषः - करणीयांतरमनुतिष्ठामः । (इति निष्क्रांतौ । प्रस्तावना) प्रथमोऽङ्कः । (ततः प्रविशति कुंतलकपिंजलाभ्यां सह तुरगाधिरूढो राजा ) राजा - सत्त्वैकतानुवृत्तीनामिति । (विमृश्य) कुंतल । नियतं वयमद्य शक्रावतारतरुविसरबाधाविधायिनं महावराहं व्यापादयि ष्यामः । कपिंजल : --- यदैव तोमरासारं साकेतपतिरमुचत्तदैव वराहो व्यापादितः । किंतु क्वचिदपि सरयूगव्हरे पतितोऽपि नो लक्ष्यते । राजा - ( समंततो निरूप्य । अवलोक्य) अहो सरसतरुविसराणां साकेतपरिसराणां वरिमा । तथा ह्येते — क्वचित् क्रीडाक्रोडप्रतिभयपरित्रस्तपृथुकाः क्वचित् क्रीडाशैलोपतटतरुविश्रांतपथिकाः । कचिद्वारीयंत्र ध्वनिरभसनृत्यच्छिखिगणाः क्वचिद्गोपीगानश्रवणनिभृतोत्कर्णहरिणाः ॥ ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72