Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai
View full book text ________________
प्रथमोऽङ्कः ।
कुंतल वयमिदानीं सर्वखपरित्यागमीहामहे । कपिंजल : - ( प्रविश्य) प्रत्यासन्नं पश्य । राजा - किं सर्वस्वपरित्यागम् । कपिंजल : न हि मुनीनामाश्रमम् । ( सर्वे आश्रमाभिमुखं परिक्रामति)
राजा
- ( विलोक्य सहर्षम् )
विश्रंभांतिकचारिबालहरिणाः शाखाशिखालंबितप्रत्यग्राहृतदर्भवल्कसमिधो नीवारपुंजीजुषः । धूम्याश्यामलहोममंदिरभुवः कन्याजनक्रीडन
--
न्यस्तांभस्तरलालवालबहलच्छायद्रुमा आश्रमाः ॥ १५ ॥
कपिंजल : - देव अयं कुलपतिः । इमे तपखिनः । (ततः प्रविशति कुलपतिः अंगारमुखप्रभृतयश्च तापसाः) कुलपतिः - ( सरोषमिव )
मर्त्यः कोऽपि समस्ति मांसनयनो नद्धांगभूर्धातुभिः सत्त्वं तस्य तु देवताभिरपि चाचाल्यं किमप्यद्भुतम् । अश्रद्धेयमिदं सुधर्मणि सभापीच्ये ब्रुवाणः स्वयं
गीर्वाणाधिपतिर्न कस्य विदधे सक्रोधबोधं मनः ॥ १६ ॥ अंगारमुख:
सर्वत्रोक्तिश्च युक्तिश्च वस्तुतत्त्वानपेक्षणी ।
प्राणाः प्रभुत्त्वसंपत्तेः प्रथमे खलु विश्रुताः ॥ १७ ॥ ततः कोऽयं मघवतः स्वैरालापेषु भवतां संरंभः |
कुलपतिः -- किमपरमुच्यते । एष भगवतो मघवतः फल्गुतां नयामि वल्गितम् ।
कुंतल : - ( उपत्य) भगवन् अयोध्याधिपतिः प्रणमति ।
कुलपतिः - (सरभसम् ) स्वस्ति महाराजाय । कोऽत्र भोः पाद्यं पाद्यमर्घोऽर्घः । अये वैखानस आसनमासनमिक्ष्वाकुवंशावचूडाय
महाराजाय ।
(प्रविश्य वैखानसः कुशासनमर्पयति । राजा प्रणम्योपविशति )
कुलपतिः - त्रिशंकुनंदन |
५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72