Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai
View full book text ________________
सत्यहरिश्चन्द्रनाटकम् |
रोहिताश्वः - तीय न सक्केमि विलंबिउं । अयिचिरं बुभुखिक
उह्नि । अंब मोअगे देहि मे ।
२६
राजा - ( सबाष्पम् )
राज्यस्य तस्य चतुरर्णवकूलमूलसंक्रांतकांतयशसः फलितं तदेतत् । वत्सस्य ताररुदितध्वनिशुष्कतालोर्यप्रातराशकवलोपनयेप्यशक्तिः ॥ ४ ॥
भवतु तावदेनां वृद्धां न्यध्वगां पुरीप्रवेशमार्गं पृच्छामि । (ततः प्रविशति मूर्ध्निकृतपाथेयभांडा वृद्धा)
राजा - आर्ये देशांतरिणो मार्गानभिज्ञा वयम् । तदावेदय पुरीप्रवेशसरणीम् ।
वृद्धा - महाभाय चक्कवट्टिलक्खणाई दे सरीरयह्नि । इदिसी अवत्था । ता किंणेदं ।
राजा - आये अवस्थाविरुद्ध मस्मच्चरितमश्रद्धेयम् । ततः किं तेन ज्ञातेन ।
रोहिताश्वः -- तौय बुभुकिउह्नि ।
वृद्धा - (सकरुणम्) त्तय गिव्ह एवं मे भोअणं (पाथेयमर्पयति ) राजा - आर्ये न वयं परतोऽनुकंपाभोजनमभिलषामः । वृद्धा - जई एव ता एइणा मग्गेण पुरं वच्च । (इत्यभिधाय निष्क्रांता )
राजा - यद्यपेतश्रमासि तदा पुरीं प्रविशामः ।
सुतारा - (सास्रम् ) अपरिभट्ट [ र अपरिब्भट्ठो] रिउउललज्जो एकहं पुरं पविसिऊं सक्कस्सदि अज्जउत्तो ।
राजा- - (सावष्टंभम् )
१ तात न शक्नोमि विलंबितुम् । अतिचिरं बुभुक्षितोऽस्मि | अंब मोदकं देहि मे. २ महाभाग चक्रवर्तिलक्षणानि ते शरीरे । ईदृश्यवस्था । तत् किमिदम्, ३ तात बुभुक्षितोऽस्मि ४ पुत्रक गृहाणैतन्मे भोजनम् ५ यद्येवं तदेतेन मार्गेण पुरं व्रज ६ अपरिभ्रष्ट [ राज्यपरिभ्रष्ट ] रिपुकुललज्ज एकाकी पुरं प्रवेष्टुं शक्ष्यत्यार्य पुत्रः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72