Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai
View full book text ________________
तृतीयोऽङ्कः ।
३३
डाले हगो । मसाणे जं उपज्जति तस्स अद्धं राया गिण्हाहि । अवलस्स अद्धस्स भादोभाया मह एगो भाउ तुह ।
राजा - एवमस्तु ।
अंगारमुखः - (अपवार्य सरोमांचम् ) अवितथवचनाय नमो भगवते पाकशासनाय ।
निषादः - अये किं कम्म करिस्सदि ।
राजा - यदादिशसि ।
निषादः - अले अद्धद्धाई चियाहिंतो दारुणि कट्टियव्वाइं । मइगसरीराउ अच्छायणवत्थं गिहीयवं मसाणं रखियवं । अनंपि जं लाया भणे तं कायवं ।
राजा - वं स्वामी श्वपचासि मे परमतेः सोहं पुनर्वेतन - क्रीतस्ते भृतस्ततः किमपि यषे करोम्येष तत् । अर्धप्लुष्टमपाहरामि चितितः काष्ठं शवस्योर्ध्वतो
गृच्छादनमादधामि परितो रक्षां श्मशानस्य च ॥ १७॥ निषाद : – (कुलपतिं प्रति) तापसा एसे मे कम्मकले इत्थ तुम सक्खी ।
राजा - अस्मदीयवेतनं कुलपतये दातव्यम् । निषाद : - एवं कैलिस्सं ।
कुलपतिः -- ( अंगारमुखस्य कर्णे) एवमेवम् ।
अंगारमुख : - ( अपवार्य) यदि मया मांत्रिकेन भाव्यं तर्हि
त्वया राजकुमारेण भवितव्यम् ।
निषादः - अले अग्रउ भव ।
अंगारमुखः– (सविचिकित्सं राजानं प्रति) त्वामात्मान्वयजातमेष भगवांस्तेजस्विनामग्रणीः
कुर्वाणं प्रविलोक्य कुत्सिततमं चंडालदास्यं मुहुः ।
१ अये किं कर्म करिष्यसि. २ अरे अर्धदग्धानि चिताभ्यो दारूणि कार्षितव्यानि । मृतशरीरादाच्छादनवस्त्रं गृहीतव्यम् । श्मशानं रक्षितव्यम् । अन्यदपि यद्राजा भणति तत् कर्तव्यम्. ३ तापस एष मे कर्मकरोऽत्र त्वं साक्षी, ४ एवं करिष्यामि ५ अरे अग्रतो भव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72