Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai
View full book text ________________
सत्यहरिश्चन्द्रनाटकम् ।
श्लाघां पुरंदरकृतां निशमय्य सर्व
बद्धक्रुधो वयमिदं विदधामहे स्म ॥ १६ ॥ चंद्रचूड:
उपकर्तुं परमेके महते स्पृहयंति विभवभराय ।
अपकर्तुं पुनरपरैः पश्यत लोकस्य वैचित्त्यम् ।। १७ ।। महाभाग भवादृशां विश्वत्रयानंदकंदकंदलनपयोदानां मनुजलोकावतरणं परोपकाराय । अस्मादृशां त्रिलोकीलोकसंतापावापदीक्षादुर्ललितचेतसां दुर्मेधसां स्वर्गसंसर्गः पुनः परापकाराय ।। - हरिश्चंद्रः-दिव्यप्रभावप्रस्तुतं दर्पसर्पमसंस्पृशंतः स्वैरमादिशत यूयम् । अहं पुनस्तत्रभवतो भवतः परोपकारिणः कलयामि । कथमपरश्चातुच्छप्रभावदृशामस्मादृशां प्रभूतक्लेशावेशः सोऽयमवलेपः प्रथताम् ।
चंद्रचूडः-(सब्रीडम्) एतस्यात्मक्लेशावेशस्यानुसारेण स्वैरमुपश्लोकयास्मान् । हरिश्चंद्रः-वसुभूतिः कुंतलश्च कथं वर्तते ।
चंद्रचूड:-स वसुभूतियः शुकरूपेण चितामधिरूढवान् । स च कुंतलो यो गोमायुनादैः कौटिल्यमुपस्थितवान् । द्वावप्येतौ अयोध्यां गतौ महाराजो द्रक्ष्यति ।
कुंदप्रभःकेशावेशमिमं क्षमस्व भवतः सत्यस्य सत्त्वस्य वा
मीमांसासु रजस्तमःकृतदृशः के नाम तेऽस्मादृशः । दुष्प्रापापरितोषपोषविकसद्रोमांकुराः स्वर्गिणः __ स्वैरं सात्त्विकचंद्र संदिश ततः किं ते प्रियं कुर्महे ॥ १॥ हरिश्चंद्र:अखंडं स्वं सत्त्वं परिनिषकमारोप्य हठतः ___ परां ख्यातिं नीतो ननु जगति वंशो दिनकृतः । कुतः सत्याभाषी स खलु पुरुहूतश्च भगवान् ___ भवेद्भूयो ब्रूत प्रियतरमतः किं किल समम् ॥ १२ ॥ कुंदप्रभः-तथापि किमपि प्रार्थयस्व ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 65 66 67 68 69 70 71 72