Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai
View full book text ________________
सत्यहरिश्चन्द्रनाटकम् । . व्यापन्नस्य सुतस्य निश्चितमिदं गृह्णामि वस्त्रं ननु
- स्वां संधां यदि नादधामि भगवान् भानुस्तदा लज्जते ॥१० कालदंड:-(साक्षेपम्) अले कीस तुमं वलिदे । हरिश्चंद्र:-एष बालक इति प्रष्टुम् । कालदंड:-एसे जइ बालगे तदा किं मे । गिण्ह गडय वत्थं । हरिश्चंद्र:--(परिक्रम्य सगद्गदखरम्) देवि । वनिता--अजउत्त । हरिश्चंद्रः-देवि। वनिता-अजउत्त आदिश किं करेमि । (हरिश्चंद्रः सबाष्पं ग्रीवां वक्रीकृत्यान्यतो विलोकयन् प्रसारितकरद्वयसंज्ञया कुसुंभवरानं याचते) वनिता-(अनवबुध्य) अजउत्त किं भणसि ।
(हरिश्चंद्रः पुनस्तदेव कुरुते) वनिता--(रुदंती) अजउत्त पुत्तयं ते हत्थे देमि । (रोहिताश्वमुक्षिपति)
हरिश्चंद्रः-(वाष्पोपरोधस्खलितखरम्) देवि तिष्ठतु वत्सो वत्साच्छादनवस्त्रं समर्पय।
(कुसुमवृष्टिनिपातानंतरमाकाशे) अहो दानमहो धैर्यमहो वीर्यमखंडितम् ।
उदारधीरवीराणां हरिश्चंद्रो निदर्शनम् ॥ ११ ॥ (ततः प्रविशतश्चंद्रचूडकुंदप्रभाभिधानौ गगनादवतरणं नाटयंतौ देवी) हरिश्चंद्रः-(विलोक्य ससंभ्रमम् ) किमिदम् ।
(देवौ प्रणम्योपविशतः) हरिश्चंद्रः--(खगतम्) स्वप्नं किं नु मनोभ्रमः किमथ किं नेत्रस्य मे विप्लवः
किंवाकांडरुषो विजूंभितमिदं देवस्य दैत्यस्य वा । कोऽहं स्थानमिदं च किं शिशुरयं को वाथ केयं वधूः
__ सदिव्याभरणांशुपीततमसावेतौ पुमांसौ च कौ ॥ १२ ॥ • . १ अरे कस्मात्त्वं वलितः. २ एष यदा बालकस्तदा किं मे । गृहाण गत्वा वस्त्रम्. ३ आर्यपुत्र. ४ आर्यपुत्र आदिश किं करोमि. ५ आर्यपुत्र किं भणसि. ६ आर्यपुत्र पुत्रकं तव हस्ते यच्छामि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 63 64 65 66 67 68 69 70 71 72