Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 47
________________ ४० शुक: सत्यहरिश्चन्द्रनाटकम् | पुण्यप्रागल्भ्यलभ्याय वेश्यापण्याय मंगलम् । यत्र प्रतीपाः शास्त्रस्य कामादर्थप्रसूतयः ॥ ७ ॥ (सर्वे हसंति) मांत्रिक : - ( सरोषम् ) महाराज कोऽयमस्य वराकस्य शुकपक्षिणः प्रलापेषु हास्यप्रयासः । ननु हास्यरसावेशभर विवशचेतसां भवतामपीयं राक्षसी प्रभविष्यति । राजा - ( सभयम् ) अमात्य किमद्यापि विलंबते श्वपाकः । (ततः प्रविशति कालदंडो हरिश्चंद्रश्च ) कालदंड : - ( प्रणम्य ) अमच एसे चिट्ठामि । शुकः -- भरतवंश्याव चूडाय महाराजाय हरिश्चंद्राय स्वस्ति । राजा - ( सरोषमिव ) सांप्रतं विहंगोऽसंबद्धं व्यावहरति । कुतो - नामाऽत्र साकेतपतिः । सत्यवसुः - अरे मृतप राक्षसीमेनामपगतावगुंठनां कुरु । कालदंड : – अरे कम्मकला लख्कसिं उघाडेदि । - — हरिश्चंद्र : - (युवतिं विगतावगुंठनां कृत्वा सखेदमात्मगतम् ) कथमियं देवी सुतारा । अतः परमपि दुःखांतरमुपस्थितम् । आः पाप विधे कोऽयं त्वया क्षते क्षारनिक्षेपः कृतः । ( पुनः सावष्टंभम् ) मुनिभ्यः संसृष्टा चतुरुदधिकांची वसुमती ऋणार्थं विक्रीता ससुतदयितात्मा सुभृतकः । कृतचंडालानां विधिरथ दिशेद्दुःखमपरं हरिश्चंद्रः सोऽहं तदपि परिसोढास्मि नियतम् ॥ ८ ॥ (विश्य) नाऽत्र कर्मणि देवी कारणम् । तदहमात्मानमग्नौ निक्षिप्य देव्या व्यलीकमपहरामि । यदि वा नाऽयं समयो राजसदसि स्वरूपप्रकाशनस्य । अपि च निषादाधीनोऽहं यदेवायमादिशति तदेव कर्तुमहमि । राजा - (विलोक्य साश्चर्यम् ) अमात्य पश्य पश्य बाह्यनेपथ्यैरकदर्थितो युवतेरंगसंनिवेशः । १ अमात्य एष तिष्ठामि २ अरे कर्मकर राक्षसीमुद्घाटय, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72