Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai
View full book text ________________
... पञ्चमोऽङ्कः ।
(चित्रांगदस्तथा करोति) विद्याधरी--(हरिश्चंद्रस्य पूजां विधाय करालं करवालं चादाय) अरे पुरुष स्मर किमपि दैवतम् । एष इदानीं न भवसि । हरिश्चंद्रः-(शिरस्यंजलिं कृत्वा)
शीर्णनिःशेषसंसारव्यापारावेशवैशसम् ।
स्मरामि निष्ठितक्लेशं देवं नाभिसमुद्भवम् ॥ १६ ॥ विद्याधरी-साधु भो इष्टदैवतं नाभेयं स्मृतवानसि ।
चित्रांगदः-नाभेयनामावकीर्तने संप्रत्येव सिध्यति भगवती विद्या।
विद्याधरी-(पुनर्हरिश्चंद्र प्रति) महाभाग प्राणितमेकमपहाय समयोचितं किमप्यर्थय त्वम् । - हरिश्चंद्रः-(साहंकारं) परमेश्वरि जीवितमपि नाहं परतः प्रार्थये । किं पुनरपरं परम् । तदावेदय किं ते प्रयोजनमादधामि । - विद्याधरी-खमांसखंडानि मे समर्पय ।
(हरिश्चंद्रः करवालमादाय स्वमांसखंडमर्पयति) विद्याधरी-(गृहीत्वा) स्वर्गाधिपतये स्वाहा । (प्रथमकुंडे क्षिपति)
(हरिश्चंद्रः पुनर्मासखंडमर्पयति) विद्याधरी-मर्त्यलोकाधिपतये स्वाहा । (द्वितीयकुंडे क्षिपति)
चित्रांगदः-वर्धसे देवि कनककंकणालंकारः करः प्रादुर्भूतो मध्यकुंडात् ।
(हरिश्चंद्रः पुनर्मासखंडमर्पयति) विद्याधरी-पातालाधिपतये स्वाहा । (तृतीयकुंडे क्षिपति)
चित्रांगदः-(ससंभ्रमम्) देवि एष कः पर्याकुलो गोमायुर्भूयोभूयः शब्दायमानः परितः कुंडमंडलं परिभ्राम्यति ।
विद्याधरी-(सभयम्) भो भोः पुरुषाः शिवाप्रवेशः प्रयत्नतो. रक्षणीयः । (हरिश्चंद्रः पुनः पिशितमर्पयति । विद्याधरी तथैव प्रथमकुंडे क्षिपति)
(नेपथ्ये। भूयो गोमायुध्वनिः) (हरिश्चंद्रः पुनः पिशितमर्पयति । विद्याधरी तथैव द्वितीयकुंडे क्षिपति)
चित्रांगदः-देवि वर्धसे मणिकुंडलप्रभापिंजरितगंडमंडलं प्रादुर्भूतं मध्यमकुंडाद्वनितावदनकमलम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72