Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai
View full book text ________________
सत्यहरिश्चन्द्रनाटकम् ।
(हरिश्चंद्रः पुनः पिशितमर्पयति) (विद्याधरी तथैव सप्रमोदं तृतीयकुंडे क्षिपति)
(नेपथ्ये । पुनर्गोमायुध्वनिः) विद्याधरी-(सभयम् ) चित्रांगद निवारय कथमप्येनं व्याहरन्तं करालं शृगालम् । यद्यस्य घोरैः फेत्कारैस्तापसो निद्रामपहास्यति तदा होमभंगमाधास्यति ।
(नेपथ्ये) कः कालेन कटाक्षितः स्फुटरुषा दृष्टः फणींद्रेण कः
स्फूर्जद्वह्निकणः करिष्यति शिरः कस्याशनिर्भस्मसात् । कंपां कल्यविशृंखले जलनिधौ को दातुमुत्कंठितो
वहावाश्रमसंनिधौ निशि महामांसं जुहोत्येष कः ॥ १७ ॥ विद्याधरी-(सोरस्ताडम्) हा हतास्मि । स्तोकसमाप्तस्य होमस्य प्रत्यूहस्तापसः समुत्थितः ।
हरिश्चंद्र:-परमेश्वरि मा विषीद । गृहाण मे मूर्धानम् । पयंतकुंडे निक्षिप्य समापय होमम् ।
विद्याधरी-(प्रणम्य) महासत्त्व क्रमेण होमविधिर्न व्यतिक्रमेण । क्रमं च तापसो न शाम्यति ।
चित्रांगदः-(ससंभ्रमम्) देवि कुंडमंडले प्रविष्टस्तापसः। अधोनिमग्नं च विद्यामुखकमलम् ।
विद्याधरी--(साशंकम्) भग्नस्तहि होमविधिः । व्रजामः स्वस्थानम् ।
(इत्यभिधाय निष्क्रांताः)
(ततः प्रविशति कुद्धतापसः) तापसः--(विलोक्य । प्रत्यभिज्ञाय च) कथमयमस्मद्गुरोरधमणः । (पुन हरिश्चंद्रं प्रति) अये हरिश्चंद्रो भवान् ।
हरिश्चंद्रः-हरिश्चंद्रोऽस्मि । तापस:--कौटिल्यमुपलक्षयसि माम् ।
हरिश्चंद्रः-कौटिल्यनामा मुनिर्यः शक्रावताराश्रमवासिना कुलपतिना महीदानस्य साक्षीकृतः ।
कौटिल्य:-एवम् । दत्तं कुलपतये कनकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72