Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 62
________________ षष्ठोऽङ्कः । ( कालदंडो दंडपाणिः प्रविशति ) कालदंड : --- (सरोषम् ) ऐसे विवन्ने समागए केवि । ताकीस तुमं निद्दायते चिट्ठदि । तुलिदतुलिदं गच्छिय गिलवत्थं । हरिश्चंद्र - ( सभयं परिक्रम्य वामाक्षिस्पंदनमभिनीय व सावभम् ) लक्ष्मीं न स्पृहयालुरिंदुधवलामिच्छुर्न भोगोत्सवान् श्रद्धालुर्जगदेकवल्लभतमे न प्राणितेप्यात्मनः । वत्सश्चेद्भरतान्वयार्णवमणिः कल्याणशाली तदा कामं वाममिदं स्फुरत्वविरतं नेत्रं च गात्रं च मे ॥ ४ ॥ (नेपथ्ये । सकरुणम्) वत्सो विन्नो । हरिश्चंद्रः – (सविषादम् ) किमिति पुनर्वत्सविपत्तिसंसूचकानाममंगलशब्दानां श्रुतिः । यदि वा स्थानमिदममंगलशब्दानां श्मशानम् । भवतु । परिक्रमामि तावत् । (प्रविशति पटतर्पिहितवदना प्रलपंती वनिता । कौसुंभवदनाच्छादितश्च वि. पनो बालकः ) वनिता - वैत्सो विवन्नो अउवरं किं मे जीवेदेण । हा पुत्त हा मुद्धमुह हा सिरीसकुसुम सुकुमार पुणोवि तुह वयणं मंदभायणी कमहं पक्खिस्सं । ५९ हरिश्चंद्रः -- व्यक्तमस्याः सूनुरयम् । वनिता-पुत्तया तुमं एगो मे पुत्तो । हरिश्चंद्र : - ( सकरुणम्) दुरात्मना कृतांतेन बालकममुं व्यापादयता ध्रुवमियमप्येकतनया व्यापादिता । (विमृश्य) बालकाच्छादनग्रहणमिदमतिनिर्घृणं कर्म कथमाधास्यामि । यदि वा उचितमथानुचितमिदं चिंतयितुं युज्यते परं भर्तुः । कुलजानां पुनराज्ञाविधानचितैव भृत्यानाम् ॥ ५ ॥ कालदंड : - ( सरोषम् ) अले केम्मकला कीसे विलंबेसि । १ एष विपन्नः समागतः कोऽपि । तत् कस्मात् त्वं निद्रायमाणस्तिष्ठसि । त्वरितत्वरितं गत्वा गृहाण वस्त्रं. २ वत्सो विपन्नः. ३ वत्सो विपन्नोइतः परं किं मे जीवितेन । हा पुत्र मुग्धमुख हा शिरीषकुसुमसुकुमार पुनरपि तव वदनं मंदभागिनी कथमहं द्रक्ष्यामि . पुत्र: ५ अरे कर्मकर कस्माद्विलंबसे. ४ पुत्रक त्वमेको मे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72