Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 57
________________ ५० सत्यहरिश्चन्द्रनाटकम् । हरिश्चंद्रः---(सभयम्) कुमार सत्वरमपसर । .. . (पुरुषः प्रणम्य वनितया सह निष्क्रांतः) (ततः प्रविशति सद्यःलानार्द्रकेशपाशा चित्रांगदेन दत्तहस्तावलंबा विद्याधरी । विभवतश्च परिवारः) विद्याधरी-(चित्रांगदसमीपे भूत्वा) निरूपय उपहारलक्षणधरोऽयं पुरुषो न वा। चित्रांगदः-(विलोक्य) देवि यदायमानीतस्तदा क्षत्रियमात्रलक्षणान्येवास्य वपुषि । सांप्रतं पुनश्चक्रवर्तिलक्षणानि । विद्याधरी--(सहर्षम्) सिद्धा तर्हि त्रिभुवनवशीकरणविद्या । चित्रांगदः-देवि कियत्कृत्यो होमविधिः । विद्याधरी-प्रतिकुंडं मांसहोमेन त्रिोमविधिः । चित्रांगदः-होमसमाप्तौ किं भविष्यति । विद्याधरी-एवमाहुतीकृते पुरुषस्य मूर्धिन कुंडमध्याद् भगवती विश्वत्रयीवशीकारविद्या स्वयमाविर्भविष्यति । हरिश्चंद्र:-(सप्रमोदमात्मगतम्) आनंदश्चतुरंबुराशिरसनादाम्ना धरित्र्या मुनेः प्राणैः प्राणितमुन्नताच्छमनसो भूभृत्कुमारस्य च ।। सिद्धिर्विश्ववशंवदस्य खचरीमंत्रस्य मूर्धाधुना __ भाग्याभोगभवः परं मम भुवि श्लाध्योऽवतारोत्सवः ॥१५॥ विद्याधरी-हले पत्रलेखे उपनय पूजोपकरणानि । येन कुं. डमंडलोपहारपुरुषाणां पूजामारचयामि । (पत्रलेखा पूजापटलकहस्ता प्रविशति) पत्रलेखा-देवि एवं पूजोवयरणं । विद्याधरी-(नाट्येन कुंडमंडलपूजां विधाय) चित्रांगद मदाज्ञया समादिश विद्याधरवीरान् यथा भवद्भिः करालकरवालहस्तैरचकितमनोभिरष्टसु दिक्षु स्थित्वा कुंडमंडले निशाचरस्य मनुष्यस्य प्रवेशो रक्षणीयः । १ देवि इदं पूजोपकरणम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72