Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai
View full book text ________________
पंचमोऽङ्कः ।
वनिता —– अकारणवच्छलो कोऽपि एस महप्पा । तउ एअस्स पत्थणं संभवेदु अज्जउत्तो ।
पुरुषः- महाभाग श्रृणु तर्हि । चंद्रशेखरस्य कासिवसुंधराधिपतेर्महासेननामा राज्यार्धः कुमारोहम् । इदानीमेव चंद्रशालायामनया सह सुखं पर्यकनिषण्णः कयापि खेचरवृंदपरिवृतया विद्याधरवनितयापहृत्याश्रमपदमिदमानीतः ।
हरिश्चंद्र :- अहो भयंकरश्चरितसंनिवेशः ।
पुरुषः -- ततः परां च विधुरामवस्थां भवानपि पश्यति । हरिश्चंद्र ः—– किमर्थं पुनरिदमनार्य कर्म विद्याधर्याः । पुरुषः- महामांसेन होमार्थम् ।
हरिश्चंद्र : - संप्रति विद्याधरी वर्तते । पुरुषः- गंगास्रोतसि स्नातुं गतास्ति । हरिश्चंद्र : - (स्वगतम्)
दत्ता यन्मुनये महीभृतकतां नीतोनिषादस्य च स्वात्मायं किमनेन बाह्यवपुषा सत्यं च सत्त्वं च मे । प्राणैः स्वैर्यदि रक्षितुं पुनरिमैः प्राणानमुष्यक्षमा
तत्सत्येषु च सात्विकेषु च तदा काचित्पताका मम ॥ ५ ॥ अपि च । कतिपयदिनावशेषा मे भृतकभावाः । ततः स्वामिवंचनापि न काचित् । (प्रकाशम् )
कुमार
न जातौ न जनिष्येते द्वाविमौ पुरुषौ भुवि । आर्थितो यः करोत्येव यश्च नार्थयते परम् ॥ ६ ॥
४७
पुरुषः -- ततः किम् ।
हरिश्चंद्र : -- यदि प्रार्थनां विफलयसि न मे तदा किमपि प्रार्थये ।
पुरुष : – (निःश्वस्य) महाभाग विगतकोशपरिच्छदः सांप्रतमहं न प्रार्थनां समर्थयितुमलम् ।
१ अकारणवत्सलः कोप्येष महात्मा । तदैतस्य प्रार्थनां संभावयत्वार्यपुत्र:.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72