Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 52
________________ पंचमोऽङ्कः। (नेपथ्ये) अरे कम्मकला मसाणे गडुअ चिट्ठ। लख्कसीपउअणेण पुणोवि लाया तुमं हक्कालिस्सइ । (ततः प्रविशति हरिश्चंद्रः) हरिश्चंद्रः--कथमयं खामी मां श्मशाने व्यापारयति । एष त्वरिततरं नजामि । (इत्यभिधाय परिक्रामति । ऊर्ध्वमवलोक्य) अस्ताभिमुखो गभस्तिमान् । (नेपथ्ये । सकरुणम्) हा अजउत्त हा तिहुअणिकल्लकी ईदिसी दे अवत्था जाया । नहि कोऽपि अह्माणं दाणि सरणं । हरिश्चंद्रः-(साशंकम्) पदं प्रायः प्रेताधिपतिमुखितानां पितृवनं धुनीरोधो बंधः पुनरयमपात्रं शिवविधेः । स्मरंती त्रातारं तदिह तरुणी कापि करुणं कथंकारं तारं प्रतिमुहुरियं रोदिति तटे ॥ १ ॥ (ततः प्रविशति सर्वांगीणभूषणा यौवनारंभविशेषोन्मिषितलावण्यनैपुण्यपुण्यतनुयष्टिर्वनिता) वनिता-हा दिट्ठ निकरुण को एस तए अह्माणं वज्रनिवाउ दंसिउ। हरिश्चंद्रः-(विलोक्य) जंघालैर्मगनाभिजैः परिमलैरुन्निद्रयंती कुलं भंगाणां परितः प्रसाधनरुचा संचूरयंती तमः । उन्मीलन्नवयौवनांचितवपुः शृंगारतारच्छविः कस्येयं वनिता कथं च रजनावेकाकिनी रोदिति ॥ २ ॥ वनिता-हा निकरुणे विद्याहरि रट्ठसिरीतिलयं मह दयियं वावयंतीए दे किं फलम् । १ अरे कर्मकर श्मशाने गत्वा तिष्ठ । राक्षसीपरिजनेन पुनरपि राजा त्वामाकारयिष्यति. २ हा आर्यपुत्र हा त्रिभुवनैकलक्ष्मीः ईदृशी तेऽवस्था जाता । न हि कोऽप्यस्माकमिदानीं शरणम्. ३ हा दिष्ट निष्करुण क एष त्वयाऽस्माकं वज्रनिपातः दर्शितः. ४ हा निष्करुणे विद्याधरि राष्ट्रश्रीतिलकं मम दयितं व्यापादयंत्यास्ते किं फलम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72