Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai
View full book text ________________
चतुर्थोऽङ्कः । मांत्रिका-(सरोषम् ) पक्षिणां वचोभिर्दिव्यदृष्टयो मांत्रिका व्यर्थ क्रियते । अहो बुद्धिकौशलम् ।
सत्यवसुः-(अपवार्य) नास्यामाकृतौ राक्षसीकर्म संभवति । शुकश्चायं बहुदृश्वा च । ततो देवेन किमपि विमृश्याचरणीयम् । व्यक्तमिदं मांत्रिकस्य विजूंभितम् ।
राजा-अमात्य दृष्टप्रत्ययो मांत्रिकः । निषादभृतकश्चायं न शुकवचनमनुमन्यते । ततो वयं शुकप्रत्ययं कथमालंबामहे ।
मांत्रिक:-(सरोषम्) यदि राक्षसीदंडमाधांतुमनलं महाराजस्तर्हि नजामो वयम् ।
राजा-(विमृश्य) अरे कालदंड न स्त्रियो वधमर्हति । अतस्त्वमेवैनां राक्षसी गर्दभारूढां पुरपथिषु भ्रमयित्वा निर्विषयां कुरु । हरिश्चंद्र:-(सखेदमात्भगतम्)
क तद्वृत्तं देव्याः शिबिनृपतिवंशार्णवभुवः ___क वायं व्याहारस्तरणिकुललज्जाक्षयकरः ।
न यो वाचः पात्रं न भवति दृशोर्नापि मनस___स्तमप्यर्थं क्रुद्धो हतविधिरकांडे घटयति ॥ १३ ॥ कालदंड:-अले कम्मकला गडुअ रासभं आणिहि ।
हरिश्चंद्रः--यदादिशति स्वामी । (इत्यभिधाय निष्क्रम्य सरासभः प्रविशति)
कालदंड:-अले लासभे एदं लख्कसिं आलोहय । (हरिश्चंद्रः सबाष्पकंठो युवतिं रासभमारोहयति । युवतिर्मदं मंदं रोदिति) शुकः-(तारस्वरम्) अहो अकृत्याचरणमकृत्याचरणम् । सत्यवसुः-देव अपर्यालोचितमिदं कर्म । राजा—सप्रत्ययेऽपि कर्मणि कः पर्यालोचः । शुकः—एवं प्रत्ययमवलोकयतु देवः । राजा-कः प्रत्ययः ।
शुकः-अहं तु जातवेदसि प्रविश्य सुतारापवादमपहरामि । __१ अरे कर्मकर गत्वा रासभमानय. २ अरे रासभे एतां राक्षसीमा
रोय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72