Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai
View full book text ________________
चतुर्थोऽङ्कः
(ततः प्रविशति सिंहलकेन निर्दिश्यमानमार्गोऽमात्यः सत्यवसुः । शुकपंजर - हस्तः पुरुषश्च )
सत्यवसुः - सिंहलक किमद्य प्रभात एवास्मानाकारयति देवः ।
सिंहलकः – किमपि पर्यालोचयितुम् । - ।
सत्यवसुः - अरे पुरुष व भवानेवं विहंगराजमाप्तवान् ।
पुरुषः- चंपापुरीवणे एस एगागी पढतो मए सुणिदो । तदो धरीय चंदसेहरणिमित्तमाणिदो |
सत्यवसुः - सिंहलक व सांप्रतं देवः । सिंहलक: - एष पुरः सौधोपवने ।
(ततः प्रविशति राजा चंद्रशेखरः । सुनंदप्रभृतिश्च परिवारः ) राजा - सुनंद पूर्वं मांत्रिकः क्कासीत् ।
सुनंदः -- देव पूर्वमुज्जयन्यामासीत् । सांप्रतं पुनरिहायातः । सत्यवसुः -- ( पुरुषं प्रति) यावदहं भवंतमाकारयामि तावत्त्वयात्रैव स्थातव्यम् ।
सिंहलक :- ( उपसृत्य ) देव अमात्यः प्रणमति ।
(सत्यवसुः प्रणम्योपविशति )
राजा - (सकरुणमिव ) अमात्य
पौराः कर्मसु धार्मिकेषु निरता वर्णाश्रमाः श्रेयसीं तन्वंति स्थितिमुज्ज्वलैौजसि वयं वर्तामहे वर्त्मनि । संहारं प्रतिमंदिरं प्रतिपथं प्रत्यापणं कुर्वती
सेयं मारिरुपस्थिता तनुमतां कस्मादकस्मात्पुरि ॥ १ ॥ प्रतीहारः -- ( प्रविश्य) देव लंबस्तनी कुट्टिनी द्वारि वर्तते । सत्यवसुः - (सरोषमिव ) अनवसर इदानीं परप्रवेशस्य । (नेपथ्ये) हा सव्वंगसुंदर हा पुत्ति अणंगलेहे कहं तुह वयणं मंदभाइणी पुणोवि पेक्खिस्सं ।
१ चंपापुरीवन एष एकाकी पठन् मया श्रुतः । ततो धृत्वा चंद्रशेखरनिमित्तमानीतः. २ हा सर्वागसुंदरि हा पुत्रि अनंगलेखे कथं तव वदनं मंदभागिनी पुनरपि द्रक्ष्यामि .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72