Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai
View full book text ________________
चतुर्थोऽङ्कः ।
३७
(सुनंदो निष्क्रांतः) मांत्रिक:-(प्रविश्य) स्वस्ति महाराजाय । राजा-(सरभसम्) इदमासनमास्यताम् ।
(मांत्रिक उपविशति) सत्यवसुः-मांत्रिक बाणारसीलोकस्याकांडमृत्युः समुपस्थितः।
मांत्रिकः-(क्षणं ध्यानं नाटयित्वा) हुं ज्ञातम् । राक्षसीललितमिदम् ।
लंबस्तनी-(सबाष्पम्) मंतिअ इयाणिं ज्जेव मह पुत्ती विवण्णा।
मांत्रिका-अनलसंस्कारो जातो न वा । लंबस्तनी-अंजवि अग्गिसक्कारो न कीरदि । मांत्रिकः-(साहंकारम्) तर्हि तां जीवयिष्यामि । राजा-(साश्चर्यम्) मांत्रिक प्रभवसि राक्षसीमत्रानेतुम् । मांत्रिका-(साक्षेपम्) किमेवमभिधीयते महाराजेन । लक्ष्मी श्रीपतिवक्षसः कमलभूवनोदराभारती ___ सूर्याचंद्रमसौ च तारकपथात्पातालत. वासुकिम् । सार्द्ध मातलिहस्तिमल्लसुमनःकल्पद्रुदंभोलिभिः
कर्षामि त्रिदशालयाद्वलिभिदं मंत्रेण तंत्रेण वा ॥ २ ॥ यदि कुतूहलं तदा प्रगुणय रक्तचंदनकणवीरकुसुमलवणसर्षपानलादिकां मंडलसामग्रीम् । उपनयताकृष्टकरालकरवालहस्तानष्टौ महावीरान् येन तां राक्षसीमाकर्षामि ।
राजा-(सकौतुकम्) सिंहलक सर्वं सत्वरमुपनय । (सिंहलको निष्क्रम्याष्टभिः पुरुषैः सह सामग्रीभृतपटलकहस्तः प्रविशति) राजा-मांत्रिक सर्वं प्रगुणमेव तदारभ्यतां मंडलविधिः । मांत्रिकः-(नाट्येन मंडलविधिमादाय) भो भो महावीराः साव
नैरचकितहृदयैराकृष्टकरवालैरष्टसु दिक्षु स्थातव्यम् । . पुरुषा:-यदादिशति मांत्रिकः ।
१ मांत्रिक इदानीमेव मम पुत्री विपन्ना. २ अद्याप्यग्निसंस्कारो न क्रियते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72