Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 43
________________ ३६ सत्यहरिश्चन्द्रनाटकम् | राजा - मंजरक कोऽयं प्रलपति । प्रतीहारः - देव लंबस्तनी प्रलपति | राजा - व्यक्तमकालमरणाकुला किमपि विज्ञपयितुकामेयम् । प्रविशतु वराकी । मंजरीक शीघ्रं प्रवेशय । ( प्रतीहारो निष्क्रांतः ) (ततः प्रविशति संभ्रमप्रसूतप्रभूतश्वा सद्विगुणतर मेदुरोदरा लंवस्तनी) लंबस्तनी - भट्टा मुसि । परित्ताहि परित्ताहि । राजा - विश्रब्धमभिधीयताम् । केन मुषितासि । लंबस्तनी - ( सोरस्ताडम् ) हेयासेण दिव्वेण । राजा - कथमिव । लंबस्तनी - मैह पुत्ती अणंगलेहा भुअंगेण सह रत्तिं सुहं कीलिअ पत्ता । अह पभाअसमयंमि रोगं विणा विवन्ना चिट्ठs | अवरोवि लोगो एवं अकाले विवज्जदि । राजा- - अमात्य अत्यंतमरिष्टम् । लंबस्तनी - ( सरोषम् ) भट्टा अनीइकारि तुमं । तउ एव अयालमरणं लोआणं । सत्यवसु:--- (सरोषम्) अहो निर्लज्जता अहो कर्कशभाषित्व - मस्याः । राजा - प्रकृत्यैव निर्लज्जा कर्कशभाषिणी चेयं । सांप्रतं पुनरातचि । ततोऽस्या वचोभिर्न कोपितव्यम् । किंत्वधुनाऽकालमरणनिवारणोपायश्चितनीयः । सत्यवसुः - देव अत्रार्थे मांत्रिकाः प्रगल्भंते । राजा - उज्जयनीतः समायातोऽस्ति मांत्रिकः । सत्यवसुः समाहूयतां मांत्रिकस्तर्हि । राजा - सुनंद मांत्रिकं सत्वरमाकारय । १ भर्तः मुषितास्मि । परित्रायस्व परित्रायस्व. २ हताशेन दैवेन. ३ मम पुत्र्यनंगलेखा भुजंगेन सह रात्रिं सुखं क्रीडित्वा प्रसुप्ता । अथ प्रभातसमये रोगं विना विपन्ना तिष्ठति । अपरोऽपि लोक एवमकाले विपद्यते. ४ भर्तः अनीतिकारी त्वम् । तदैवाकालमरणं लोकानाम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72