Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai
View full book text ________________
सत्यहरिश्चन्द्रनाटकम् |
कुलपतिः - ( सरोषम् ) तिष्ठतु कनकं ग्रहीष्यामो वयम् । राजा -भगवन् न नाम मे कश्चिदाशयदोषः । दयितासुतौ विक्रीय यावत्कनकं प्राप्तं तावदुपनीतम् ।
अंगारमुखः - अये त्रैशंकव किममुना कुत्सितकुटुंब विक्रयेण । प्रार्थय चंद्रशेखरमत्र भूपतिम् । येनायमेकहेलयैव कनकलक्षं प्रयच्छति ।
३२
राजा - किमेवमभिदधासि । हरिश्चंद्रः खल्वहं न नाम शतशः पराभूतान् प्रत्यर्थिनः प्राणात्ययेऽपि प्रार्थये ।
अपकृत्यापकार्येषु ये भवत्यर्थिनः पुनः ।
तेषु मन्ये मनुष्यत्वं विधिवाद्धिक विक्रिया ॥ १५ ॥ कुलपतिः - अरे नीच अस्मत्कनकदानसमये महत्त्वकार नाटयसि ।
राजा -मुनींद्र मा कुपस्तुभ्यं लभ्यं यच्छामि कांचनम् । विधाय निर्विषादस्य निषादस्यापि दास्यताम् ॥ १६
(ततः प्रविशति कौपीनमात्रपरिधानः कपिललंबुकेशः करवलितयष्टिर्वृद्धो निषादनिषाद : - ( विलोक्य राजानं प्रति) अले मत्थयनिहिददब्भपूले तुमं । किं कंमकरे । आदु अवलोकवि । राजा -- कर्मकारोऽस्मि ।
निषादः - किं कम्मं कलिस्सदि ।
राजा - (दिशो विलोक्य स्वगतम्) अस्ताभिमुखो गभस्तिमान् अतिक्रांता ऋयिकालापवेला । अनुपलक्षितो नगरेषु निशि निवा न लभते । विलंबमसहिष्णुश्च तापसः । तदहमिदानीं श्वपाकस्या कर्म करोमि । ( प्रकाशम्) करिष्यामि ते कर्म ।
''
कुलपतिः - (अपवार्य सरोमांचम् ) महासत्त्वचूडामणे नमस्ते निषादः – भागीरथी दक्षिणमसाणाहिवइ कालदंडाभिहाणे चं
१ अरे मस्तकनिहितदर्भपूल कस्त्वं । किं कर्मकरः । अत्रावलोकर २ किं कर्म करिष्यसि. ३ भागीरथी दक्षिणश्मशानाधिपतिः कालदंड | भिधानश्चंडालोऽहम् । श्मशाने यदुत्पद्यते तस्यार्धं राजा गृह्णाति अपरस्यार्घस्यैको भागो ममैको भागस्तव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72