Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 37
________________ सत्यहरिश्चन्द्रनाटकम् । आकारः क्षितिभारधारचतुरः श्रेणिर्वपुर्लक्ष्मणां विश्वस्यापि दरिद्रतानवलताकंदच्छिदाशंसिनी । वेषस्त्वेष मलीमसः शिरसि च क्रेतव्यचिन्हें कुशः ___ स्थानं कर्मकरापणाध्वनि ततः कस्त्वं कथां ब्रूहि नः॥१२॥ राजा--(सखेदमिव) सखे प्राचीनं नौ विभवमथ वृत्तं कुलमथो ___ समाकास्तोकं मनसि खलु शाकल्टयिता । किमेतैस्तैतैिरभिलषसि भृत्यां यदि तदा गृहाणैतां नो चेन्निजमपरकृत्यं विरचय ॥ १३॥ द्विजः--(ऊर्ध्वमवलोक्य सखेदम्) आजीवितांतमाधेयं परकर्मपुरोऽपि यैः । गर्भ एव न किं ध्वस्तास्त्वया ते दैव मानवाः ॥ १४ ॥ (विमृश्य) भद्रे किं भवतीमूल्यम् । (सुतारा सवाष्पमधोमुखी भवति) द्विजः-(राजानं प्रति) महाभाग किं मूल्यमस्याः । राजा--(बाष्पनिरुद्धकंठः क्षणं तुष्णीमास्ते । पुनर्विमृश्य) आर्य देशांतरिणो वयम् । नात्रत्यभृतकानां मूल्यमवधारयामः । ततस्त्वमेव समुचितं मूल्यं किमपि प्रयच्छ। (इत्युक्त्वा सवाष्पमधोमुखो भवति) द्विजः-सुवर्णसहस्रपंचकम् । राजा-अस्तु तर्हि । द्विजः-अप्रतिषिद्धमनुमतम् । ततो गृहाणेदं कनकम् । (राजा लज्जया पाणिं प्रगुणयति । द्विजो राज्ञो वस्त्रांचले स्वयमेव कनकं बध्नाति) राजा--(कथं कथमपि वाष्पं निरुभ्य) आर्य द्विगुणेन कनकेनास्याः पुनर्विमोक्षः । द्विजः-आवश्यकमेतत् । (पुनः सुतारां प्रति) भृतके अग्रतोभव । (सुतारा मंद मंदं रुदती परिकामति) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72