Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai
View full book text ________________
सत्यहरिश्चन्द्रनाटकम् । रोहिताश्वः-तुम मं विक्कणेसि । अंब अहं तुह समीवे चिहिस्सं । न उण परघरे गमिस्सं ।
राजा--(अपवार्य) देवि निवारय कथमपि वत्सं । न शक्नोमि समाकर्णयितुं सकरुणं वचः ।
सुतारा-पुत्तय तुमं चक्कवट्टी भविस्सइ तावि कोवि तुमं न विक्किणस्सदि । चिट्ठ मा रुअसु ।
राजा-(विलोक्य) देवि यथायमितस्ततः सविक्रयाकुलो लोकः परिभ्राम्यति तथा व्यक्तं भृत थिकेयम् । तदस्यामूर्द्धस्था एवास्महे । अपि ना को ... क्रीणीयात् । (सर्वे परिपाट्या तिष्ठति । राजा किमपि विमृश्य निष्क्रम्य च गृहीतदर्भपूल:
प्रविशति) सुतारा-अजउत्त किं नेदं ।
राजा-देवि क्रेतव्यमानुषाभिज्ञानमिदम् । (आत्मनः सुताराया रोहिताश्वस्य च शिरसि दर्भपूलं निवेशयति)
रोहिताश्वः-(सास्रम्) ताद मा मह सिरसि दब्भं पख्किवेसु (शिरो धूनयति)
राजा-(सवाष्पम् ) वत्स विधेहि मे वचनम् । तुभ्यमहं हस्ति दास्यामि । सुतारा-(सबाष्पम्)
साँ कत्थ रज्जनत्थिप सा विक्कयविडंबणा कत्थ । एगंमि विही जंमे जम्मसयं दसइ कियंतो ॥८॥ राजा-(सधैर्यम्) देवि १ वं मां विक्रीणासि । अंब अहं तव समीपे स्थास्यामि । न पुनः परगृहे गमिष्यामि, २ पुत्रक वं चक्रवर्ती भविष्यसि तदापि कोऽपि त्वां न विक्रेष्यति । तिष्ठ मा रुदिहि. ३ आर्यपुत्र किमेतत्. ४ तात मा मम शिरसि दर्भ प्रक्षिप. ५ सा कथं राज्याधीशता सा विक्रयविडंबना कथम् । एकस्मिन् विधिर्जन्मनि जन्मसर्व दर्शयति कियत्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72