Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai
View full book text ________________
तृतीयोऽङ्कः । रोहिताश्वः-अंब अहंपि आगमिस्सं ।
सुतारा-(सबाष्पम्) पुत्तय तावतं तुमं तायस्स पासे चिट्ठ जाव अहं तुह मोअगं आणेनि ।
रोहिताश्वः-अब तएसह आगमिस्सं । द्विजः-(सरोषम्) भृतके कोऽयं कालविलंबः । सत्वरमग्रतो भव।
(सुतारा सभय परिकामति । रोहिताश्वोरुदन् वस्त्रांचलमालंबते । द्विजः सरोषं रोहिताश्वं करतलेनाहत्य पातयति । सुतारा तारखरं रोदिति । रोहिताश्वः पुनरुत्थाय वस्त्रांचलमालंबते । द्विजः पुनः पादेनाहत्य पातयति)
राजा-(विलोकयितुमक्षमः पाणिभ्यां लोचने पिधाय क्षणमास्ते । पुनः सदैन्यम्) आर्य नायं बालको मातरं विना तिष्ठति । ततो वेतनं किमप्येतदीयं प्रयच्छ। अयमपि युष्मद्वेश्मनि किमपि कर्म करिष्यति ।
द्विजः-(सरोषम्) अहमेनं कर्मविघातकारिणं मुधापि न गृह्णामि ।
सुतारा—(सवाष्पम्) अज्ज पसायं करिय एयंपि गिण्ह । एइणाविणा फुट्टइ हिययं मे। द्विजः-(विमृश्य) एतस्यापि सुवर्णसहस्रं मूल्यमस्तु ।
राजा-अस्तु । द्विजः-(सुवर्ण समर्प्य सुतारां प्रति) भृतके अग्रतो भव ।
(सुतारा सरोहिताश्वा मंद मंदं द्विजेन सह रुदती निष्क्रांता) राजा-दूरक्षणीयमिदं सुवर्णम् । ततो कुलपतिरिदानीमेवागत्य यदि कलयति तदा समीचीनं भवति ।
(ततः प्रविशति कुलपतिः । अंगारमुखश्च ) कुलपतिः-(सरोषं पराङ्मुखो भूत्वा) अरे प्रतिज्ञाभ्रष्ट अदृश्यमुख उपनय वंचनाकनकम् ।
राजा-(विलोक्य सप्रमोदम्) कथं प्राप्त एव कुलपतिः (पुनः प्रणम्य) भगवन् कियदपि कनकं गृहाण ।
१ अंब अहमप्यागमिष्यामि. २ पुत्रक तावत् त्वं तातस्य पार्श्वे तिष्ठ यावदहं तव मोदकमानयामि. ३ अंब त्वया सहागमिष्यामि.३ आर्य प्रसाद कृत्वैतमपि गृहाण । एतेन विना स्फुटति हृदयं मे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72