Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 31
________________ तृतीयोऽङ्कः। (ततः प्रविशति राजा सुतारा रोहिताश्वश्च) राजा-(विलोक्य) कथं प्रभातप्राया रजनिः। देवि पश्य पश्य । विश्वंभराभरवियोगवतो ममैव सत्त्वं विलोकयितुमुत्सुकपादचारः । तिग्मांशुवंशविनिवेशनिदानमेष पूषाधिरोहति शिखामुदयाचलस्य ॥ १ ॥ सुतारा-(सखेदम्) अजउत्त कित्तिअं अज्जवि गंतव्यं । राजा--देवि पर्याप्त एव पंथाः । प्राप्ता वयं वाराणसीम् । पश्यति न देवी पुरः पुरस्याभिज्ञानानि वापीनिकेतनापणवनचैत्यादीनि । सुतारा—(निःश्वस्य) अजउत्त मग्गपरिलंबणेण परिसंतमि । राजा--(विलोक्य) नक्तंदिनं चरणचंक्रमणेन परिश्रांता देवी । तदा भागीरथीशीकरनिकरव्यतिकरसांद्रस्तबकस्यास्य चंपकस्य मूले विश्राम्यतु देवी। (राजा सुतारा रोहिताश्वश्च सखेदं निषीदंति) राजा-संवाहयामि चरणचंक्रमणेन बालमृणालकोमलानि सुचिरमायासितानि ते अंगानि । चरणतलाभ्यां च दर्भाकुरमपनयामि । (सुतारा मंद मंदमधोमुखी रोदिति) रोहिताश्वः–ताय कंटकेण विद्धो मे पाऊं। राजा--(सकरुणम्) पुत्र कंटकेन पादकस्ते विद्धः । उपनय पादकम् । येन कंटकमपनयामि । (नाट्येन कंटकमपनयति) रोहिताश्वः—(सास्रम् ) ताय बुभुख्किउमि । राजा-(ससंरंभम्) वत्स त्वां बुभुक्षा बाधते । कोऽत्र भोः । अये उपनय वत्साय मोदकम् । (विलोक्य सलजम्) कथमग्रतो न कोऽपि पार्श्वतोऽपि न कश्चित् । १ आर्यपुत्र कियदद्यापि गंतव्यम्. २ आर्यपुत्र मार्गपरिलंबनेन परिश्रांतास्मि. ३ तात कंटकेन विद्धो मे पादः. ४ तात बुभुक्षितोऽस्मि. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72