Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai
View full book text ________________
सत्यहरिश्चन्द्रनाटकम् |
कुलपतिः - ( सरोषम् ) नाहं परिग्रहनिवृत्तमना मुनींद्रो नाप्येष कृत्यविदुरो नृपतिश्च हास्यः । दानांतराय परिबोधितशापसर्प
२२
ग्रासीकृतः किमुत रे सचिवाधमस्त्वम् ॥ २१ ॥
अंगारमुख उपनय कमंडलुम् ।
(अंगारमुखस्तथा करोति)
कुलपतिः - अरे वाचाल ! अनुभव मुखरतायाः फलम् । यदि मे सप्रभावं तपस्तदिदानीं शुको भव । ( कमंडलुतश्रुलुकमादाय भूमौ क्षिपति )
(वसुभूतिः शुको भूत्वा नभस्तलमुत्पतितः)
सर्वे - ( सभयं प्रणम्य ) परमेश्वर उपसंहर क्रोधम् । समलंकुरु सत्वरमाश्रमम् । एते वयं भवतो वसुंधरामपहाय गता एव देशांतरे । (नेपथ्ये) सप्तार्णवीनिवसनामवनीं गृहीत्वा
लक्ष्मीविशेषकममुं दिशतो वनाय ।
आः पाप तापस किरात कृशानुकीर्णं
वज्रं न किं पतति मूर्द्धनि ते नभस्तः || २२ ॥
राजा - (सभयमपवार्य) कपिंजल निवारय पुरलोकम् । अपरथा तापसः क्रत्स्यति ।
( कपिंजलो हस्तसंज्ञया वारयति)
कुलपतिः -- ( अनाकर्णितेनैव ) त्रैशंकव किमद्यापि विलंब: । राजा - भगवन् एष गत एव । (पुनरंजलिं बद्धा) इक्ष्वाकुक्षितिपालपौरुषकथासाक्षिण्ययोध्ये नमः
पौराः सांप्रतमेष वो मुनिरधिष्ठाता गुरुर्दैवतम् । दत्तास्मै यदियं मया वसुमती सप्तार्णवीमेखला
भावद्वंश्यभुवां हि भूतलभुजां सत्यत्रतं पालितम् ॥ २३ ॥ ( वणिजो मंद मंदं रुदंति)
राजा - देवि अवलंबस्व मद्वचनम् । अत्रैव तिष्ठ । अशिक्षितपादचारा न शक्नोति भवती क्रमितुं दर्भाकुरविधुरासु वनवसुंधरासु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72