Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 28
________________ द्वितीयोऽङ्कः । २१ कुलपतिः-पतिव्रते कुत्र केन सह चलितासि । सुतारा-भयवं अजउत्तेण सह देसंतरं गमिस्सं । कुलपतिः---अस्मदायत्तां भवतीं त्रैशंकवो नेष्यतीतिमहदाश्चर्यम्। वसुभूति:-अये तापस अनभिज्ञोऽसि लोकव्यवहाराणाम् । पतिदेवता हि स्त्रियो न परायत्ताः । कुलपतिः--(सरोषहासम्) अये लोकव्यवहारनदीष्ण महामात्य एतान्येवाक्षराणि महासत्वचूडामणिमेनं महाराजमध्यापय । (हरिश्चंद्र प्रति साक्षेपम्।) उदात्तावतंस पतिदेवतेयं सुतारा न ममायत्ता । राजाअश्वीयस्य च हास्तिकस्य च तथा स्त्रैणस्य पौंस्नस्य च ... रथ्यानामथ मंत्रिणः किमपरं देव्याश्च वत्सस्य च । स्वामी तापस एव संप्रति ततो यद्येष देव्या मया ___ सार्द्ध संसहते गतिं सतनया कामं समागच्छतु ॥ १९ ॥ कुलपतिः-(अपवार्य) अंगारमुख सेयं सत्त्वस्य परा काष्ठा । अंगारमुखः--पुरंदरनिर्णीतोऽर्थः प्रलयेऽपि किं विघटते । सुतारा-(प्रणम्य) भैयवं अणुजाणेहि मं । कुलपतिः--एवमस्तु । किंत्वाभरणानि विमुच्य वसनमात्रेण नेपथ्येन गंतव्यम् । (राजा मुकुटादीन्याभरणानि विमुंचति) सुतारा-भैयवं अविहवालख्खणं मे आहरणं चिठ्ठउ । कुलपतिः-त्रैशंकव एवाविधवालक्षणं भवत्याः । सुतारा-सबाष्पमाभरणानि विमुंचति । वसुभूतिः --(सरोषम्) अये ब्रह्मराक्षस । तुभ्यं ददद्वसुमती ननु तापसाय ____ विज्ञः किमेष नृपतिः परिहासपात्रम् । त्वं तापसः किमथवा भवसंगभंग श्रद्धालुरस्तविषयः कलयन्नमुष्मात् ॥ २० ॥ १ भगवन् आर्यपुत्रेण सह देशांतरं गमिष्यामि. २ भगवन् अनुजा. नीहि माम्. ३ भगवन् अविधवालक्षणं मे आभरणं तिष्ठतु. । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72