Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai
View full book text ________________
द्वितीयोऽङ्कः ।
श्रियो नाशं यांतु व्रजतु निधनं गोत्रमखिलं शिरश्छेदो वास्तु प्रभवतु समंताद्विपदपि ।
विवेकार्कज्योतिर्विघटितमहामोह तमसः
प्रतिज्ञातादर्थात्तदपि न चलंत्येव कृतिनः ॥ ३ ॥ तदलमनया पूर्वकृतमीमांसया । प्रगुणय कनकलक्षम् । इदानीं
समायाति कुलपतिः ।
(नेपथ्ये ) इतः इतः ।
राजा - अमात्य समायात एव तापसः । तदुपनय सत्वरं कनकम् ।
वसुभूतिः -- ( कुंतलस्य कर्णे ) एवमेव ।
( एष समायातोऽस्मीत्यभिधाय कुंतलो निष्क्रांतः ) (ततः प्रविशति कुलपतिरंगारमुखश्च ) कुलपतिः - (साश्चर्यम् ) अंगारमुख वचसामगोचरं किमप्यस्य त्रैशंकवस्य सत्त्वम् ।
अंगारमुखः - - किं कदापि कमप्यनुचितमुपस्तौति । इंद्रो वा स्तोष्यति ।
कुलपतिः - ज्ञास्यामि यद्यतः परमपि सत्त्वमेवमस्य भविष्यति । राजा - ( सरभसम् ) स्वागतं महर्षे । कोऽत्र भो आसनमासनम् । कुलपतिः - अलमासनेन । आकर्णय किमपि ।
राजा - आदिशतु कुलपतिः ।
कुलपतिः
कृशानुसेवा फलकंदवर्तनं
जटाधरत्वं वनवासिनां व्रतम् ।
महीपतीनामिदमेव तु व्रतं
१३
यदात्मसत्यात्प्रलयेऽपि न च्युतिः ॥ ४ ॥
राजा - ततः किम् । कुलपतिः-
Jain Education International
वनांतरात्प्रातरुपेत्य ते पुरीं पुरोवतीर्णे मयि योगिनां वरे ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72