Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai
View full book text ________________
द्वितीयोऽङ्कः । जंघाल बालचरिताध्वनि साधुवृत्त
लुटाक कौकुटिक कर्मसु धार्मिकेषु । वाचाल चाटुषु किमन्यदसत्यसंध
संध्याविधिं किमु विहंसि वृथा मृषोद्यैः ॥ १२ ॥ वसुभूतिः -(सरोषमिव कुलपति प्रति)
इमैः किमाकस्मिकरोषविप्लुषां
भरैः परब्रह्मयः कलंक्यते । भवादृशां विश्वजनीनकर्मणा
मनात्मनीना न भवंति वृत्तयः ॥ १३ ॥ कुलपतिः-(सरोषम्) अस्थापितमहत्तर अरे मुखर अस्मत्परब्रह्मचिंतायां कस्त्वमसि ।
अंगारमुख:--अरे क्षत्रियाधम त्रैशंकव कथंकारमेतमंतरालाभिलापिनं वाचालुबटुं न निवारयसि । राजा-अंगारमुख मुनिरसि विरसानि ब्रूहि सर्वसहोऽस्मि
व्रतिषु तरणिवंश्याः कच्चिदूर्जा भजते । रसमृदुलमृणालच्छेदकौतूहलेषु __ स्पृहयति पुरुहूतः किं नु दंभोलिकेलिम् ॥ १४ ॥ अंगारमुख:-नाहं व्रती किंतु व्रतिवेषो ब्रह्मराक्षसः । ततो यदि शक्तिरस्ति तदा प्रहर । __ राजा-(स्वगतम्) किममुना तापसेन सह प्रतिज्ञाविघातकारिणा कलहेन । (प्रकाशम्) कोऽत्र भोः ।
(प्रविश्य) कपिंजल:-आदिशतु देवः । राजा-कपिंजल अस्मदाभरणानि समानय ।
अंगारमुखःअस्मकिंकरस्याभरणान्यस्मदीयान्येव । ततस्तान्यासताम् ।
वसुभूतिः-कुलपते यावदयोध्याधिपतिः कनकलक्षं दातुं प्रभवति तावन्मां गृहाण । यदि वा कनकलक्षमूल्यान् करिणो वाजिनः पताकिनो वा कलय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72