Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai
View full book text ________________
सत्यहरिश्चन्द्रनाटकम् । अहं युष्मद्भचं स्वं ननु पुनरहोभिः कतिपयैः
कुतश्चिद्याचित्वा नियतमुपयच्छामि निखिलम् ॥ ८॥ वणिजः-भट्टा अप्पदविणो अटेन कणयलक्खं दाउं समत्था। वसुभूति:-(सरोमांचम्) कुलपते । लोकः प्रायो भवति यतिनां विश्वदृश्वा ततो वः
किंचित् पृच्छाम्यतनुकुतुकोत्तालवाचालवक्त्रः । दृष्टः कोऽपि क्षितिपतिरिमां क्ष्मां भ्रमद्भिर्भवद्भिः
सत्त्वावासः क्वचिदपि हरिश्चंद्रसब्रह्मचारी ॥९॥ अंगारमुखः-(सोपहासम्) अये महामात्य आम । विश्वदृश्वानस्तपोधनाः प्रायो भवंति । परमस्माभिर्भूतधात्रीमशेषां भ्रमद्भिर्न भवतः सदृशो बुद्धिमानमात्यो नापि क्षितिपतिर्हरिश्चंद्रतुल्यः कोऽपि सात्त्विको दृष्टः । कुलपतिः-(राजानं प्रति सरोषम्)
अहाय किं न यतसे कनकार्पणाय
मध्याह्नकृत्यसमयो ननु हीयते नः । आकस्मिकं किमथवा यशसः कुलस्य
लोकस्य च प्रलयमीक्षितुमुत्सुकोऽसि ॥ १० ॥ राजा-(सभयं प्रणम्य) केयं योगीश्वरदिनकरादंधकारप्रसूतिः
को वाकांडे तुहिनमहसो रंगदंगारपातः । कमाल्लोकत्रितयकुशलध्यायकेभ्यो मुनिभ्यो
भास्वद्वंश्यक्षितिपतिभुवः सर्वसंहारभावः ॥ ११ ॥ कुलपतिः-(साक्षेपम्) आः पाप कौकुटिक पुनः पुनर्मां विप्लावयसि ।
राजा-(सभयं प्रणम्य पादौ स्पृशति) कुलपतिः-(राजानं पाणिना प्रणिहन्ति) राजा-(पुनः पादौ स्पृशति) अंगारमुख:-(साक्षेपम्) १ भर्तः, अल्पद्रव्या वयं न कनकलक्षं दातुं समर्थाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72