Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 22
________________ द्वितीयोऽङ्कः । १५ कुलपतिः -- व्रजामो वयम् । दृष्टं भवतः सत्यं सत्त्वं च । राजा - विलंबध्वं यूयं यावत्कनकमायात्यन्यतः | ( पुनरमात्यस्य कर्णे) एवमेवम् । वसुभूतिः - कोऽत्र भोः । (प्रविश्य) पुरुषः- एषोऽस्मि । वसुभूति: - ( पुरुषस्य कर्णे) एवमेवम् । ( पुरुषो निष्क्रांतः) कुलपति:-- पुरी स्पृष्ट्वा क्रांत्वा भुवमुपहतस्तापसविधिमैया तस्मात्कन्याकनकमुपनेतुं भवभृशः । न चेत्त्वां भ्रूणस्त्रीवधकमधिक क्रोधविधुरो विधास्ये शापोत्थज्वलद्नलभस्मीकृततनुम् ॥ ७ ॥ राजा - ( सभयम् ) अमात्य कोऽयं विलंबः । (प्रविश्य) प्रतीहारः - देव वणिजो द्वारि संति । राजा - शीघ्रं प्रवेशय । (आदेश: प्रमाणमित्यभिधाय प्रतीहारो निष्क्रांतः) (ततः प्रविशति कृतोष्णीषाः पंचषा वणिजः ) कुलपति : - (अपवार्य) अंगारमुख वणिजो दिव्येन प्रभावेण निवारय । अंगारमुखः पूर्वमेव निवारिताः । वसुभूतिः - (वणिजां कर्णे) एवमेवम् । वणिजः - ( अपवार्य परस्परम् ) अदोवरं अह्माणं तावसो सामी ता किं हरियंदस्य कणगेण दिनेण । राजा - ( सविनयम् ) अधस्ताद्वः पौराः कृत इव मया पाणिरघृणादृणादेतस्मान्मां विरहयत यूयं कथमपि । १ अतः परमस्माकं तापसः स्वामी तत् किं हरिश्चंद्रस्य कनकेन दत्तेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72