Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai
View full book text ________________
सत्यहरिश्चन्द्रनाटकम् । न सांप्रतं सांप्रतमुन्नतस्थिते
निजां प्रतिज्ञां प्रति कालयापना ॥ ५ ॥ राजा-भगवन् कः कालयापनां करोति । उपनीतमेव कनकं पश्य । अंगारमुखः-महाराज ।
अकांडकोपेऽपि तपस्विनो दशां
विशंति तां या वचसामगोचरा । निजार्धभंगे सरुजस्तु तामसी
दधत्यगम्यां मनसोऽपि विक्रियाम् ॥ ६ ॥ वसुभूतिः-तपोधना अपि तामसी दशामुपासत इति केषां वाचोयुक्तिः।
अंगारमुखः-(सोपहासम्) महाराज तपोधनाचारचतुरः कोऽयम्। राजा-मुने अमात्योऽयम् । कुलपतिः-किंनिमित्तोऽयं विलंबः ।
(प्रविश्य कनकभृतभाजनहस्तः कुंतल:) कुंतल:-इदं कनकम् आदिशतु देवः । राजा-मुनेरुपनय । कुलपतिः -(सरोषमिव) किमिदम् । राजा-वंचनाकनकम् । कुलपतिः-कुतः समानीतमेतत् । कुंतल:-कनककोशात् । कुलपतिः-कोशः पृथिव्या मध्ये किं बहिः । राजा-मध्ये । कुलपतिः-पृथिव्यां कः स्वामी । राजा-कुलपतिः ।
कुलपतिः-अंगारमुख अस्मत्कांचनेनात्मानमनृणं कुर्वतः त्रैशंकवस्य महती सत्त्वकाष्ठा ।
राजा-समीचीनमाह अथ कुलपतिः । कुंतल कनकं यथास्थानमुपनय ।
(कुंतलो निष्क्रांतः)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72