Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 25
________________ सत्यहरिश्चन्द्रनाटकम् | कुलपतिः - अरे जूर्णमार्जारेण भवता कमर्थं साधयामि । करिवाजिपताकिनस्तु वसुंधरया सहैवाग्रे गृहीताः । कपिंजल : तर्हि मां गृह्णातु कुलपतिः । अंगारमुखः -- अरे कपिंजल वराटिकाण पदातिपांशुना भवता कनकलक्षमुपेक्षितुं न शिक्षितः कुलपतिः । वसुभूतिः - ( सरोषं राजानं प्रति) न नाम स्युः स्वर्णक्षितिसुतकलत्राणि यतिनां तदस्मै यद्दत्तं तदिह निखिलं भस्मनि हुतम् । विहाय व्यामोहं विमृश विमृशाद्यापि नृपते तपोव्याजच्छन्नं किमपि नियतं दैवतमिदम् ॥ १५ ॥ कुलपतिः -- (सोपहासम् ) अरे मुखर सचिवापसद चिराद्यथार्थमभिहितवानसि । दुस्तपतपः करकलित स्वर्गापवर्गशर्माणो मर्त्यापदेशेन दैवतान्येव मुनयः । वसुभूतिः - (साश्चर्यमिव) मृगमदमृगप्रायैः कीर्णैर्मृगैरुटजे स्थितिः सरसपनसश्लाघ्यैर्वृत्तिः सुखोपनतैः फलैः । मदनजरुजाच्छेदी वैद्यः सदा सविधे प्रिया वपुरपगमे स्थानं मुक्तावही विषमं तपः ॥ १६ ॥ कुलपतिः - अरे जिव्हाल प्रगल्भस्व वक्रोक्तिभिस्तावद्यावद्वयं भवद्वचनानुरूपं नाचरामः । वसुभूतिः -- अये तापस अचिराय समाचर स्वाभिप्रेतम् । कुलपतिः -- ( सरोषम् ) अंगारमुख उपनय कमंडलुं येन दुरात्मानमेनं शपामि । १८ राजा - ( समयं प्रणम्य ) भगवन् किममुना सह वृथा कोलाहलेन । अहमस्मि ते निदेशस्थायी । समादिश किं करोमि । कुलपतिः -- ( साक्षेपम् ) किमस्मान् भूयो भूयः पृच्छसि । ननु शतशः समादिष्टं वंचनाकनकमुपानय । प्रत्यासीदति प्रदोषसंध्या । राजा - (विमृश्य) कोऽत्र भोः । (प्रविश्य) कुंतल : - आदिशतु देवः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72