Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 19
________________ THAT द्वितीयोऽङ्कः। (ततः प्रविशत्यमात्यो वसुभूतिः कुंतलश्च) वसुभूति:-~-ततस्ततः । कुंतलः-अनंतरं सकलदेवताधिचक्रवर्तिनः सरयूसीकरासारसंपर्कसततार्द्रपादपद्मस्य भगवतो नाभिनंदनस्य सांध्यं सपर्याविधिमाधाय देवः सौधमधिष्ठितवान् । वसुभूतिः-(विमृश्य) के पुनर्वराहं देवाय विज्ञप्तवंतः । कुंतल:-सर्वैरदृष्टचरः कोऽपि ।। वसुभूतिः---यदि सर्वैरदृष्टचरस्तहि व्यक्तमिदमिंद्रजालं किमपि । भवतु तावत् । संप्रति देवः क्वास्ति । कुंतल:-एष विलासमंडपे तिष्ठति । (ततः प्रविशति राजा सहर्षम्) कुंतल:-(उपसृत्य) देव अमात्यः प्रणमति । (वसुभूतिः प्रणम्योपविशति) राजा-(सहर्षम्) अमात्य ह्यस्तनेऽहनि यदस्माभिर्वराहदेवकस्य पुरे यत्प्रतिज्ञातं तदखिलं वराहं व्यापाद्य नियूंढम् । वसुभूतिः-शस्तनवृत्तांतं ज्ञातवानस्मि । राजा-(विहस्य) व्यक्तं कुंतलः कथितवान् । वसुभूतिः -देव । एतेन परमानंदरूपं प्राभवमुच्यते । अनौचित्यमपि स्तौति येनौचित्यमिवानुगः ॥ १ ॥ तथापि किमपि विपरीतं विज्ञपयिष्यामि । राजा-स्वैरं विज्ञपय । वसुभूतिः-वसुमतीपरित्यागो नाम समुचितः प्रतिभाति । राजा-अमात्य । उचितमिदमनुचितमिति प्रारंभात् पूर्वमेव युज्यते । प्रारब्धस्य तु निर्वहणमेव संकल्पनं न्याय्यम् ॥ २ ॥ अपि च । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72