Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai
View full book text ________________
प्रथमोऽङ्कः
कुंतल:-वसंतावतारव्यतिषंगरंगत्परभागस्य जगतः श्रियमवधारयतु देवः । परभृतवधूगीतस्फीतश्रियो वनशाखिनः
प्रतिदिशविशन्मल्लीवल्लीरजस्तरलं नभः । ककुभि ककुभि स्मेराक्षीणां विसति चर्चरी
प्रतितरुतलं क्रीडक्षांता लसंति विलासिनः ॥ ८ ॥ राजा-कियति दूरे वयमागताः ।
कपिंजल:-देव सुदूरमागता वयं । किं न पश्यति देवः पुरः प्रसर्पतीमिक्ष्वाकवंशालवालस्य साकेतस्य सारिणी भगवतीं सरयूम् । राजा--(विलोक्य) उपतटतरुच्छायाधूनं क्वचित्क्वचिदंगना
घुसृणकपिशं हंसश्रेणीविगाहसितं क्वचित् । कचिदपि तरत्कोकद्वंद्वप्रभाशबलं क्वचित्
कुवलयदलश्यामं धत्ते श्रियं सरयूजलम् ॥ ९ ॥ कपिंजल:-देव पश्य पश्य । सांद्रच्छायाजनिततमसः सारसैः शीकरौघैः . स्निग्धस्कंधा विदधति मुदं कस्य नामी वनांताः । येषां भूमौ पवनविचलत्पत्रमार्गप्रविष्टा
भानोर्भासः कनकतिलकश्रेणिलक्ष्मी वहति ॥ १० ॥ राजा-(विश्रम्य) कुंतल । जंबालजालजटिलासु सरित्तटीषु
मुह्येत्कचित्तुरग एष सुशिक्षितोऽपि । तस्माबजामि सरयूतटमुत्तरेण
वाचंयमांचिततमाश्रममीक्षमाणः ॥ ११ ॥ कुंतल:-यदादिशति देवः ।
(इति यथोक्तं कृत्वा) राजा-(अग्रतो विलोक्य) कपिंजल । विलोकय मृगयाकुतूहलाकुलितचेतोभिरस्माभिः कियच्चिरं लक्ष्यमतिहतम् ।
कपिंजल:-(परिक्रम्य) देव अयं स महावराहः प्रहारपतितस्तिष्ठति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72