Book Title: Satyaharishchandranatakam Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik Publisher: Tukaram Jawaji Mumbai View full book textPage 8
________________ सत्यहरिश्चन्द्रनाटकम् । ॐ नमः सर्वज्ञाय । देवाय विश्ववंद्याय नाभेयाय नमोनमः । सर्वोऽप्येष मनुष्याणां यदुपज्ञक्रियाक्रमः ॥ १ ॥ (नांद्यते सूत्रधारः) भो भो स्फुरन्निःशेषकलाकलापसंपदः सभासदः किमपि वो विज्ञापयामि। ___ अधीती सर्वभाषासु गृहीती दशरूपके । आमाती रसकाव्येषु प्रबंधान् द्रष्टुमर्हति ॥ २ ॥ ततो यदि यूयं यथोदितगुणग्रामाभिरामात्मानस्तदिदानी सभ्यभूयमनुभवितुमर्हथ (आकाशे) किमादिशत यथोदितगुणग्रामाभिरामा एव वयमामहे । किंतु परमरसनिष्यंदसुंदरः कोऽपि प्रबंधेऽभिनय इति । (विहस्य) सरसतायां किमुच्यते प्रबंधस्य । यतःव्युत्पत्तिर्मुखमेव नाटकगुणव्यासे तु किं वर्ण्यते सौरभ्यप्रसवा नवा भणतिरप्यस्त्येव काचित् कचित् । यं प्राणान् दशरूपकस्य स करोत्क्षेपं समाचक्षते साहित्योपनिषद्विदः स तु रसो रामस्य वाचां परम् ॥ ३ ॥ किं च । प्रबंधा इक्षुवत्प्रायो हीयमानरसाः क्रमात् । कृतिस्तु रामचंद्रस्य सर्वा स्वादुः पुरः पुरः ॥ ४ ॥ अपि च । कोऽप्येष वः परमहर्षोत्सवो वर्तते । तदवधीयतां क्षणमेकम् । सूक्तयो रामचंद्रस्य वसंतः कलगीतयः । खातंत्र्यमिष्टयोगश्च पंचैते हर्षवृष्टयः ॥ ५ ॥ (प्रविश्य संभ्रांतो नटः) भाव स युष्मत्प्रतिस्पर्धी साहसिकनामा कुशीलवः प्रसह्य भवतो निषिध्य स्वाभिप्रेतं प्रबंधमभिनेष्यति । सूत्रधारः--(ससंरंभम्) साहसिकः स्वाभिप्रेतं प्रबंधमभिनेष्यति। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72