Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai

View full book text
Previous | Next

Page 13
________________ सत्यहरिश्चन्द्रनाटकम् । राजन्वती वसुमती विशदं मनस्ते कीर्तिः कलंकविकला प्रबलः प्रतापः वर्णाश्रमश्रमनिरोधविधानशिक्षा दीक्षाविशालकुशला निखिलापि वृत्तिः ॥ १८ ॥ राजा-सर्वमस्ति नस्तपोभृतां प्रसादेन । (पुनः सविनयम् ) भगवन् । ज्ञानध्यानतपांसि संयमभृतो निर्विघ्नमातन्वते निष्प्रत्यूहफलप्रसूनसुभगाः कन्यावसिक्ता द्रुमाः । हस्तन्यस्तपयःसमित्कुशहृतो निफ्धबाधा मृगाः कच्चिद्वः प्रतिभूः शिवस्य परमे ब्रह्मण्यचाल्यो लयः ॥ १९ ॥ कुलपतिः-भरतकुलनभस्तलशशांक भवति भूतधात्रीं प्रशासति कुतो नामाश्रमाणामसमंजसम् । (नेपथ्ये कलकल:) अकृत्याचरणम् अकृत्याचरणम् अब्रह्मण्यम् अब्रह्मण्यम् । कुलपतिः-(ससंरंभम्) अये वैखानस । गत्वा जानीहि किंनिमित्तोऽयं तपस्विनामा” नादः । (पुनरपवार्य कर्णे) एवमेव । वैखानसः- आणवेइ कुलवई (इत्यभिधाय निष्क्रांतः) राजा-कुंतल पश्य पश्य । शास्त्रेषु विस्मृतवतां जरतां यतीना___ मर्थं पदानि च शुकाः स्मरयंति भूयः । एते च वृद्धकपयस्तिलतंदुलादि ___ होमोपयोगि यतिनामुपढौकयंति ॥ २० ॥ (नेपथ्ये । सकरुणम्) अंब जइ एसा मे हरिणी एइणा सरप्पहारेण विवध्येस्सई ता हं अणसणं करिस्सं । कुलपतिः-कथमियमस्मत्पुत्री वंचना प्रायोपवेशनमभिलषति। अंगारमुख किमिदम् । अंगार:- अहं न जानामि । १ यदाज्ञापयति कुलपतिः. २ अंब यद्येषा मे हरिण्येतेन शरप्रहारेण विवधिष्यते तदाहं अनशनं करिष्यामि. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72