Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 288
________________ द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः । २३३ कुटुम्बी म्रियते तत्र गृहं संवत्सरात् परम् । प्रेष्याश्चात्र विनश्यन्ति दीर्यमाणे विशेषतः ॥ २९ ॥ लुमासु मिद्यमानासु कन्यामरणमादिशेत । मुण्डकेषु विनष्टेषु सुहृदस्य विनश्यति ॥ ३० ॥ अनुपूर्वेषु भिन्नेषु पुत्राणां मरणं ध्रुवम् । विपत्तौ मुण्डगोधानां माता तस्य विनश्यति ।। ३१ ।। नागपाशकमङ्गे तु भृत्यानां मरणं भवेत् ।। कपाटे भ्रातृमरणमर्गलायां स्त्रिया वधः ॥३२॥ सुतस्य चार्गलापाचे विनष्टे मरणं भवेत् । द्वारबन्धे विनष्टे तु शीघ्रं कुर्यात् कुलक्षयम् ।। ३३ ॥ इन्द्रकीलो दृढो यस्य भङ्गमायाति मूलतः । सपुत्रपशुवगेस्य तस्य ब्रूयात् कुलक्षतिम् ॥ ३४ ॥ तोरणं भज्यते यस्य द्रव्यं तस्य विनश्यति । गृहमतुश्च मरणं त्रिदशैरवधारयेत् ।। ३५ ॥ वास्तुमध्ये विनष्टे तु कुलवृद्धो विनश्यति । सोपानं भियते यत्र नवकमणि निष्ठिते ।। ३६ ।। तस्य प्रेष्याश्च गावश्च हिरण्यं च विनश्यति । वेदिका भज्यते यस्य भार्या तस्य विनश्यति ।। ३७ ॥ गवाक्षस्तु विनश्येत पट्टस्तम्भोऽपि वा दृढः । गजशुण्डाथ भिन्नोऽश्वः कपोताल्यथवा नवा ॥ ३८ ॥ स्थपनीपट्टिकाचैव स्त्रीविनाशं तदादिशेत् । विटङ्कस्य तुलाया वा भङ्गे जाते कथञ्चन ।। ३९ ॥ शीलास्तम्भस्य वा नाशे भायो तस्य विनश्यति । स्तम्भशीर्ष यदि भ्रश्येत् स्फुटेत स्तम्भोऽपि वा दृढः ॥ ४०॥ १. 'वी ख. ग. पाठः । २. 'प्यमानो वि' क. पाठः । ३. 'भज्यमा', ४. 'त्त' ख. ग. पाठः । ५. षु', ६. 'व्य' क, पाठः । ७. 'यात् ', ८. 'यम्, १. 'भन्यते', १०,'पुटस्त' ख. ग. पाठः । ११. स्वंद्राथ' ख 'स्वड्यथ' ग. पाठः । १२. 'नश्च', १३. ' ' ख. ग. पाठः। १४. 'भवेत् ' क. पाठः । १५. 'मा' ख. पाठः । १६. 'र्षे', १७. 'टे', ख. ग. पाठः। "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346