Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 295
________________ समराङ्गणसूत्रधारे दुर्गं तु षड़िधं प्रोक्तं राज्ञां तु विजिगीषताम् । अब्दुर्गं पङ्कदुर्गं वा वनदुर्गेरिने तथा ॥ ३९ ॥ पार्वतीयं महादुर्गमिति कल्प्यानि पार्थिवैः । सर्वेषामेव दुर्गाणां पार्वतीयं प्रशस्यते ।। ४० ।। दुर्गस्थानविभागोऽत्र पोशाख्येन कीर्तितः । मध्ये तु ब्रह्मणः स्थानमसम्वायं विधीयते ॥ ४१ ॥ ब्रह्मस्थानं समारभ्य हर्म्यं पञ्चशयाः स्मृताः । उपरध्या त्रिस्ता तु शेषास्तु द्विशयाः स्मृताः ॥ ४२ ॥ सन्निकृष्टा विधातव्या दुर्गार्ग) रथ्या समन्ततः । द्वारं रथ्याप्रमाणेन कार्य नात्यन्तमुच्छ्रितम् ॥ ४३ ॥ परचक्रसमं वाधं (?) सुरक्षं तत् सदा भवेत् । दुर्गेश्वरगृहस्थानं ब्रह्मणः परितो भवेत् ॥ ४४ ॥ वैवस्वतेऽथवार्यम्णे मैत्रे पृथ्वीधरेऽपि वा । यथा पुरे पुरा प्रोक्तं स्थानं दुर्गेऽपि तत् तथा ॥ ४५ ॥ वीराः शुभा हादोषाश्च भूमिपालस्य संगताः । धनुर्वेदविधिज्ञाश्च कृतास्त्राः शास्त्रपारगाः ।। ४६ ।। दुर्गे स्थाप्याः सुरूपाश्च बहवच वरस्त्रियः । अन्तःपुरं च कोशं च कुमारांचात्र वासयेत् ॥ ४७ ॥ एवं दुर्गविधानस्य समासोऽयमुदाहृतः । इत्यष्टाङ्गो वास्तुशास्त्रस्य सारः संक्षेपेण स्पष्टमस्माभिरुक्तः । यत्र ज्ञाते शिल्पिनंद वास्तुविद्यापाथोनार्थं सन्तरन्त्यप्रयासात् ॥ ४८ २ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे अष्टाङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः ॥ २४० १. ' णो ग, पाठः । ५. वृद्धास्तु वि' के. पाठः । २. '५', ३. 'गु', "Aho Shrut Gyanam" # 'स्व. ग. पाठः ।

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346