Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 308
________________ गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । तुला उपतुला वास्युर्द्वारि तिर्यग् यदा कृताः । दारिद्र्यव्याधिसन्तापा भवन्ति स्वामिनस्तदा ॥ ९६ ॥ अनुवंशमनुप्राप्ता जयन्त्यो यदि मन्दिरे । वित्तायुषस्तदाल्पत्वमनारोग्यं च जायते ॥ ९७ ॥ उदुम्बरे (वि) निहिता (नि) ललाटी नाम सा तुला | दूषणं मरणं वापि कन्यानां विदधाति सा ।। ९८ ॥ उत्तराङ्गोदरे न्यस्ता ललाटेन समा यदि । तुला ललाटिका सापि कुलक्षयकरी भवेत् ॥ ९९ ॥ तुलापिण्डेन विन्यस्ता ज्ञेया यज्ञोपवीतिनी । वसतो व्यसनं कुर्यात् कुटुम्बस्यासुखं च सा ॥ १०० ॥ यदि भारतुलैकाप मध्ये विद्धा कथञ्चन । तदा वराङ्गं भज्येत धनं चं परिहीयते ।। १०१ ॥ भित्तिभेदो न कर्तव्यस्तुला ग्रैरखिलैरपि । कुर्याद् ब्रह्मपदन्यस्तो भारपट्टः कुलक्षयम् ।। १०२ ।। अयुक्तयोर्युक्तयोर्वा सन्धिश्वे भारपट्ट । सन्धौ स्यात् तत् सुतो ज्येष्ठः कर्तुश्चापि विनश्यति ॥ १०३ ॥ अनुवंशं न भुञ्जीत न शयीत कदाचन । भुञ्जानस्यार्थनाशः स्याच्छयानस्य महारुजः ।। १०४ ।। नाशोऽनुवंशं रोगाः स्युस्तिर्यक्स्थे रक्षसो भयम् । शयनागारविन्यस्ते मरणं नागदन्तके ।। १०५ ॥ कर्णौवात् (१) पक्षिराङ्घण्टाध्वजच्छत्र कुमारकान् । सिंहकर्णकपोतालिं गृहेषु परिवर्जयेत् ॥ १०६ ॥ इन्द्रकील शुकं तुम्बीर्धवंशं च वेश्मनि । न कुर्यात् तत्र विहिताः सर्वदोषावहा यतः ॥ १०७ ॥ अतिक्षिप्रचिरोत्पन्नं कृशद्रव्यमपोहितम् । अप्रतिष्ठित संस्थानं गृहं नमति पञ्चधा ॥ १०८ ॥ ३'र्साख पाठः । $ गाः क. पाठ १. 'भल्ला' ख. पाठः । २. ४. 'मूर्ख', ५. पाह ख. ग. पाठः । " Aho Shrut Gyanam" २०५३

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346