Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
रुचकादिप्रासादलक्षणं नामैकोनपश्चाशोऽध्यायः ।
२५७ आत्मनः शूलहस्तस्य धनाध्यक्षस्य पाशिनः । सुरोशिने च विश्वेशो विमानानि यथाक्रमम् ॥४॥ बहन्यन्यानि चैवं स सूर्यादीनामकल्पयत् ।। विशेषाय यथोक्तैस्तान्याकारैः प्रतिदैवतम् ॥ ५ ॥ प्रासादांश्च तदाकाराञ् शिलापक्केष्टकादिभिः । नगराणामलङ्कारहेतवे समकल्पयत् ।। ६ ।। . वैराज चतुरश्रं स्याद् वृत्तं कैलाससंज्ञितम् । चतुरश्रायताकारं विमान पुष्पकं भवेत् ॥ ७॥ वृत्तायतं च मणिकमष्टाभि स्यात त्रिविष्टपम् । तद्भेदाञ् श्रीमतोऽन्यांश्च विविधानसृजत् प्रभुः ॥ ८ ॥ ये यत्र विहिता भेदाः पूर्व कमलयोनिना । सर्वांस्तानभिधास्यामो नामसंस्थानमानतः ॥ ९ ॥ रुचकश्चित्रकूटश्च तृतीयः सिंहपञ्जरः । भद्रः श्रीकूट उष्णीपः शालाक्षो गजयूथपः ॥१०॥ नन्धावर्तोऽवतंसाहः स्वस्तिकः क्षितिभूपणः । भूजयो विजयो । नन्दी श्रीतरुः प्रमदाप्रियः ।। ११ ।। व्यामिश्री हस्तिजातीयः कुवेरो वसुधाधरः। सर्वभद्रो विमानाख्यो मुक्तकोणश्च नामतः ॥ १२ ॥ चतुर्विंशतिरुद्दिष्टा चतुरश्राः समासतः। वृत्तांस्तथाभिधास्यामः प्रासादानपरानपि ॥ १३ ॥ वलयो दुन्दुभिः प्रान्तः पद्मः कान्तश्चतुर्मुखः । माण्डूकाख्योऽथ कूर्मश्च तालीगृह उलूपिकः ।। १४ ॥ इति वृत्ताः समासेन प्रासादा दश कीर्तिताः । चतुरश्रायता ये स्युः कथ्यन्ते तेऽपि नामतः ॥ १५ ॥
१. 'पाकेर्यय' क, षायद्यथो' ख. ग. पाटः 1 २. 'ष्ट दारुभिः ' ख. ग. पाठः । ३. 'शोऽथ ग' क, पाठः । ४. 'या' क. ख, ग, पाठः । ५. 'मत्त: प्र' ग. पाटः । ६. 'नाको' क. स्त्र. ग. पाठः । ७. 'मान्द्रका' क, 'मदूका ख. ग. पाठः।
शालाख्य इति लक्षणे पाट: लक्षणे तु नन्द इति पठ्यते ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346