Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 320
________________ रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २६५ चतुःस्तम्भैः सप्रवेशैः समन्तादुपनिर्गमैः । प्रासादोऽयं समाख्यातो नामतः प्रमदाप्रियः ॥ ९९ ।। प्रमदाप्रियः । भागविस्तारविष्कम्भमस्य प्राग्रीवकं यदा । भिन्नालिन्दाग्रतस्तिर्यग् द्वे शाले तन्मुखं शुभम्(?) ॥ १० ॥ द्वितीयालिन्दकस्थाने कर्णप्रासादकैर्युतः । एवं व्यामिश्रसंज्ञोऽयं प्रासादः परिकीर्तितः ॥ १०१ ।। व्यामिश्रः । विजयस्यास्य च यदा कर्णलाङ्गलकैर्युता । भवेद् भित्तिस्तदा हस्तिजातीय इति कथ्यते ॥ १०२ ।। हस्तिजातीयः । सीमामाग्रीवभूमीषु यदा स्युः पृथिवीजये । द्विभागाश्चाभितोऽलिन्दास्तिर्यशालामुखेषु च ॥ १०३ ॥ अलिन्दे पश्चिमा शाला सर्वा)शालोकना शुभा । षड्दारुकं तथैवात्र चतुर्भागायतं भवेत् ॥ १०४ ॥ पूर्ववत् सर्वमन्यच्च कुवेरः स तदा भवेत् । कुबेरः । प्रासादः कथ्यतेऽन्यश्च सम्प्रतीह धराधरः ॥ १०५ ॥ कुबेरोपत्तरोक्षिप्तः (१) कर्णप्रासादभूषितः । मध्यद्वारान्वितः श्रीमान् धराधर इति स्मृतः ॥ १०६ ॥ वसुधाधरः। यत्रोग्रतश्चित्रकूटस्तस्माद यः सर्वतोदिशम् । धराधरतदम्भास:(१) सर्वतोभद्र उच्यते ।। १०७ ।। सर्वतोभद्रः । । कर्णप्राग्रीवको द्वौ द्वौ शालाप्राग्रीवका(अव)पि । स्यातां यदास्य प्रोक्तोऽसौ विमानाख्यस्तदा शुभः ॥१०८ ॥ विमानाख्यः। विमानपीठे निर्मुक्तः शालाभिः सर्वतो वृतः। अन्योन्यशालासम्बन्धे विमानो न्यस्यते यदा ॥ १०९ ॥ १. वेदस्तितदा' ख. पाठः । २. 'तालम्' क. पाठः । ३. 'भा' क, ख, ग. पाठः ४. 'न्दो' ख. ग. पाठः । ५. 'थाप्रभश्चि', ६. 'नं', ७. 'कशा' क. पाठः। "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346