Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
रुचकादिप्रासादलक्षणं नामैकोमपञ्चाशोऽध्यायः । २७१ कार्याः प्राग्रीवकास्ते च गर्भकोष्ठेन सम्मिताः । भूतिरित्येष (सं)पोक्तः प्रासादः शुभलक्षणः ॥ १७२ ।। मुखायता स्याच्चतुरो भागान्यत्तिर्यगायतान् (१)। क्षेत्रवृत्तं ततः कुर्यात् तन्मध्ये गर्भवेश्म च ॥ १७३ ॥ चतुर्भागायतं तत् स्याद् भागद्वितयविस्तृतम् । अलिन्दो वाहतस्तस्य द्वादशस्तम्भसंयुतः ।। १७४ ।। भागद्वितयविस्तारः प्राग्रीवश्चशिनिर्गतः। निषे(ध इति विश्वक इति) ख्यातः प्रासादोऽयं पुरातनैः।। १७५ ॥ यदा(१) निषेधः स्यादस्य पुरः प्राग्रीवको यदि । चतुरिपरिक्षिप्तोऽलिन्देनाष्टधरेण वा ॥ १७६ ॥ अयमेवांशकेन स्याद् यदालिन्देन वेष्टितः । मुखभागत्रयं मुक्त्वा भित्त्या च परिवेष्टितः ।। १७७ ।। यदा च कर्णप्राग्रीवौ प्राग्रीवश्चाग्रतो भवेत् । विशेषरचना या च द्वाविंशतिधरान्विता(?) ॥ १७८ ! गवाक्षः शोभनैर्युक्तस्तदा सिंहः प्रकीर्तितः।। द्वादशांशायते क्षेत्रे तथा षड्भागविस्तृते ॥ १७९ ॥ पश्चादंशद्वयं त्यक्त्वा द्विभागायामविस्तुतः । देवकोष्ठो विधातव्यस्तद्वारं भागमुच्छ्रितम् ॥ १८० ॥ सीमाग्रे सान्तरा यंशविस्तृता चतुरायता । अष्टस्तम्भोऽस्य गर्भो वै षोडशस्तम्भको बहिः ॥ १८१ ।। अलिन्दस्तस्य पुरतो वृत्तप्राग्रीवकोऽपिच सीमाप्राग्रीवकालिन्दकोष्ठान् वृत्तान् प्रकल्पयेत् ॥ १८२ ॥ माग्रीवौ पार्श्वयोः सीमासमा भागविनिर्गतौ । द्वाभ्यां द्वाभ्यां युतौ ज्ञेयो स्तम्भाभ्यां वर्तुलाकृती ॥ १८३ ॥ एतत्सर्वं विधातव्यमलिन्देनाभिवेष्टितम् । चतुर्विंशधरोऽयं च भागिकोस्य प्रशस्यते ॥ १८४ ॥ द्विस्तम्भयुक्तान् प्राग्रीवान् कुर्याद गर्भस्य दिक्त्रये । एवमेष समाख्यातः प्रासादः सुप्रभः शुभः ॥ १८५ ।।
"Aho Shrut Gyanam"

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346