Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः। २६९ द्विद्विस्तम्भयुताः कार्याः प्राग्रीवाः कोष्ठजास्त्रयः। सीमासमे वलभ्यौ च प्राग्रीवो मध्यतस्तयोः॥ १४६ ॥ द्विद्विस्तम्भौ पुरश्चान्यौ वेदिकाजालशोभितौ । वेदिकाजालरूपाठ्यः सिंहकोपशोभितः ॥ १४७ ॥ प्रासादोऽयं विभुर्नाम कथितो भर्तृनन्दनः । एवमेते समाख्याताश्चतुरश्रायता दश ॥ १४८ ॥ चतुरश्रायतांस्तिर्यगायत्याथापरानपि । प्रासादानभिधास्यामो नवसंस्थानलक्षणैः ।। १४९ ॥ द्वौ भागौ विस्तृतिर्गर्भे द्विगुणा तिर्यगायतिः। मध्ये भागोच्छ्रितं द्वारं तदर्धेन तु विस्तृतम् ।। १५० ।। स्तम्भैश्चतुर्भिः संयुक्ता सीमा द्वारस्य चाग्रतः । द्विभागायामविस्तारा तावन्मात्रसमुच्छ्रितिः ॥ १५१ ।। तां सीमां गर्भसहितां भागेनान्येन वेष्टयेत् । भित्तिस्तत्र विधातव्या सगवाक्षा चतुर्दिशम् ॥ १५२ ।। षड्दारुकयुतो ह्येष प्रासादो भव उच्यते । अस्येव भागनिष्कासा शाला मुखचतुष्टये ॥ १५३ ।। यदी षड्दारुकोपेता विशालः स तदोच्यते ।। स्तम्भैर्मुखेमुखे पभिर्वहिः साम्मुख्य इत्यसौ ।। १५४ ॥ अस्यैव सीमा कर्णस्था द्विद्विस्तम्भयुता यदा । प्राग्रीवैर्भागनिष्क्रान्ता बहिस्था प्रभवस्तदा ।। १५५ ॥ सीम्नोऽग्रतो यदास्यैव स्तम्भद्वययुतो भवेत् । प्राग्रीवो भागनिष्क्रान्तस्तदा स्याच्छिविरागृहः ॥ १५६ ॥ विशालसन्निवेशस्य मुखे शाला भवेद् यदा । पार्श्वयोश्चोभयोः शाले प्राग्रीवाश्च त्रयो यदा ॥ १५७ ॥ निष्क्रान्तभाग एकैकः स्तम्भद्वितयसंयुतः। 'प्रासादः स तदा ज्ञेयो मुखशालोऽभिधानतः ॥ १५८॥
१. 'त', २. 'न्ययप' क. पाठः ! ३. 'भाग', ४. 'ते', ५. 'हा', १. 'वभाग' ख. पाठः ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346