Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 343
________________ २८८ समराङ्गणसूत्रधारे लुमाग्रंभागव्यंशं च तयोर्मध्यं च यत् स्थितम् । सूत्रं स्पृशेत् तत्र धृत्वा कर्कटं भ्रमयेद् बुधः ॥ ९६ ॥ भागभागोत्तरक्षेत्रापेक्षया चतसृष्वपि । गण्डिकासु विधातव्यं विधिवद् वृत्तवर्तनम् ।। ९७ ॥ मूलाल्लुमायाः क्षेत्रस्य पञ्चमांशत्रयेऽथवा । पृथुत्वार्धे लुमापृष्ठलेखावृत्तद्वयं यथा ॥ ९८ ॥ संपतत्येवमालिख्य शेषं पूर्ववदाचरेत् । लुमाया मूलतः क्षेत्रसप्तमांशचतुष्टये ॥ ९९ ॥ पृथुत्वार्धे लुमापृष्ठलेखावृत्तद्वयं यथा । संपतत्येवमालिख्य पड्भागैः शेषमाचरेत् १.०० ॥ नवांशपञ्चके यद्वा क्षेत्रस्यैव लुमादितः । पृथुत्वार्धे लुमापृष्ठद्वयलेखां निवेशयेत् ।। १०१।। शेषैः पभिस्ततो भागैरन्यत् तु प्राग्वदाचरेत् । भागाध निर्गमः कार्यः प्रासादानां कनीयसाम् ॥ १०२॥ छाधकस्यैव भांगैस्तु ज्यायसां निर्गमो यतः। तदन्तरे ये प्रासादास्तेषां क्षेत्रानुसारतः १०३ ।। छाद्यस्य निर्गमः कार्यो विद्वद्भिरनुपाततः। निर्गमस्य त्रिभागेन कनीयाञ् छाद्यकोदयः ॥ १०४ ।। अर्धभागेन परमो भाज्यं षड्भिस्तदन्तरम् । अन्ये भागोत्तराः पञ्च सप्तैवमुदया मताः ॥ १०५॥ इदानीमभिधास्यामः सिंहकर्णस्य लक्षणम् । छाद्योदयोदयः स स्याद् दशभिस्तं विभाजयेत् ॥ १०६ ॥ तैः स्यात् षोडशभिर्भागैस्तस्यैव तलविस्तृतिः । ऊर्ध्वतश्चतुरो भागांस्त्यक्त्वा शकुं निवेशयेत् ॥ १०७ ॥ चतुरश्रीकृते क्षेत्रे कर्णेनारभ्य शकुतः । ततो वृत्तं लिखेत् पश्चाच्छङ्कु समधिरोपयेत् ॥ १०८ ॥ १. '', २. 'ध्यं यतः स्थितम् ', ३. 'लानुमा' ख. पाठः । ४. 'गाः स्यु निर्गमोक्षायसां मतम् (१) क. पाठः । ५. 'श्रांशिकक्षे ख. पाठः। "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 341 342 343 344 345 346