Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
२८६
समराङ्गणसूत्रधारे मानोन्मानमथ ब्रूमः प्रासादच्छाद्यसंश्रयम् । अर्धेनच्छाद्यविस्तारस्योर्चे वंशं प्रकल्पयेत् ॥ ७१ ।। अयमोदयः प्रोक्त आवन्त्यो नामतः परः । व्यंशेनच्छाद्यविस्तारस्योदयो वामनो भवेत् ॥ ७२ ॥ वामनावन्त्ययोर्मध्ये नवधा प्रविभाजयेत् । भागोत्तरोदयात् तेऽष्टौ वामनादुदयाः स्मृताः ॥ ७३ ॥ (वा?आ)तपत्रोऽथ कोवेरः (स?श)मनाख्यस्तथावली । हंसपृष्ठो महाभोगी नारदः शम्बुकस्तथा ।। ७४ ॥ वामनः प्रथमस्तेपामाव(न्त्योते?न्त्येन) दशेत्यमी । छाद्यानामथ वृत्तानामुदयः प्रोच्यतेऽधुना ।। ७५ ॥ तलमूत्रसमं कृत्वा कुर्याद् द्वादशधोदयम् । षष्ठादारभ्य भागांत् स्युः सप्त भागोत्तरोदयाः ।। ७६ ।। कुबेरशेखरी चन्द्री नागश्चा(तुथ) गणाधिपः । मुख्यश्चाछः सुभद्रश्च वृत्ते सप्तोदयाः स्मृताः ॥ ७७ ॥ कृत्वा त्रिकर्करपदं लुमापृष्ठं लिखेत् ततः । भागाधमधिकं क्षेत्रे भवेच्छाद्यकवर्तना ॥ ७८ ॥ भागार्धवर्धिते क्षेत्रे तलमूत्रक्रमान्विते । लुमामाद्यां लिखेद् भूयः षट् क्रमेणानुसन्ततम् ॥ ७९ ॥ रिक्षा यथाद्विहस्ताय(?) लुमायाः स्यादनन्तरम् । लुमा त्रिभागहीनेन परिवृद्धाङ्गुलेन सा ।। ८० ॥ तस्याश्चानन्तरा लक्ष्म्या साध वृद्धाङ्गुलत्रयम् (१) । व्यंशोनैः षभिरपरा त्र्यंशोनैदेशभिः परा ॥ ८१ ॥ चतुर्दशभिरन्या स्यात् सार्धवृद्धा ततोऽगुलैः। विंशत्यङ्गुलवृद्धा तु सप्तमी कोणसंश्रिता ॥ ८२ ॥ क्रमेणानेनै मानानि लुमानां वृद्धिहासयोः । अनुपातेन कायोणिच्छाद्यक्षेत्रानुसारतः ॥ ८३ ॥
१. 'स्योदयस्यव्यसनो' (?) क. पाठः । २. 'मा' ख. पाठः । ३. 'न्यौते ' क. पाठः । ४. 'गाः' ख, पाठः । ५. 'इछायः', ६. 'बाद भ', ७. 'श्चामभरायक्ष्म्या सा' क. पाठः । ८. 'लंद्वयम्', ९. 'द्धां' ख. पाठः। १०. 'ता:', ११. 'न नामानि' क. पाठः।
"Aho Shrut Gyanam"

Page Navigation
1 ... 339 340 341 342 343 344 345 346