Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
२८४
समराङ्गणसूत्रधारे हंसपक्षं करालं च विकटं शङ्खकुट्टिमम् । शङ्खनाभिः सपुष्पं च शुक्ति(?)त्तकमेव च ॥ ४५ ॥ मन्दारं कुमुदं पद्म विकासं गरुडप्रभम् । पुरोहतं पुरारोहं विद्युन्मन्दारकं तथा ।। ४६ ॥ एतान्येवं वितानानि सङ्ख्यया पञ्चविंशतिः । एतेषां रूपनिमोणमधुना संप्रचक्ष्महे ।। ४७॥ समन्ताच्चतुरश्रे च चतुरश्रायतेऽथवा । क्षेत्रे वृत्तीकृते नाभ्यैकया तत् कोलमुच्यते ॥ ४८ ॥ चतुरश्रे यदा क्षेत्रे कर्णस्थानेषु कृत्लशः । चतुरश्रनिबन्धेन चतुरश्रनिबन्धने ।। ४९ ॥ वैलिनी विकटाकारा पूर्व वृत्तान्यधस्तथा । भ्रमवृत्तं च यन्मध्ये परं तत्रापरा लुमाः ॥ ५० ॥ क्रियन्ते तुम्बिकाः पञ्च यत्र सुस्थाः सुसंवृताः । माग्रे(?)स्तलेऽधःसूत्रस्य तद् भवेन्नयनोत्सवम् ।। ५१ ।। कोलाविलं समे क्षेत्रे भागाष्टकविभाजिते । मध्ये द्विभागे विलिखेद वृत्तं तुम्बिकयान्विते ॥ ५२ ।। तत्र भ्रमान्ते च सूत्रे भ्रमान् षोडश कारयेत् । ऋजूनि यानि सूत्राणि लुमास्ताः परिकल्पयेत् ॥ ५३ ।। यानि शेषाणि मूत्राणि वलिनीस्ताः प्रकल्पयेत् ।। तुम्बिन्यां कारयेद् वृत्तं गजतालुकमुच्यते ॥ ५४ ।। अष्टपत्रे चतुषष्टिभागं क्षेत्र प्रकल्पयेत् । लुमास्थानेषु पत्राणि खण्डितान्यन्तरैस्तथा ॥ ५५ ॥ सम्पातेषु समस्तेषु तुम्बिकाः सनिवेशयेत् । वृत्ताकारं शरावं स्याद् विन्यासं च धरैश्च तत् ॥ ५६ ॥ चतुरश्रेऽथवा वृत्ते भागत्रयविभाजिते । निवेशयेन्नागबन्ध + सम्पाते वलिसूत्रयोः ।। ५७ ।। १. 'मु', २. 'भै', ३. 'ब', ४. 'वी' क. पाठः ! ५. 'स्व', ६. 'स्थिता ।', ७. 'स्व' ख. पाठः ।
नागवीथीति लक्ष्ये पठितम् ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346